________________
मिथ्यात्वादिसंवरोपदेशद्वारम्
[४४२] भवेत् समग्रेष्वपि संवरेषु, परं निदानं शिवसंपदां यः । त्यजन् कषायादिजदुर्विकल्पान्, कुर्यान्मनःसंवरमिद्धधीस्तम् ।।१४.२१ ।।
धनवि . - सकलयोगसंवरेषु मनोयोगसंवरस्य प्राधान्यं ख्यापयन्नाह
'भवेत्' इति, समग्रेषु सर्वेषु अपि कषाययोगादिसंवरेषु शिवसंपदां परम्उत्कृष्टं निदानं-परमं कारणं, यो भवेत् तं मनःसंवरम्, इद्धधीः समृद्धबुद्धिः पुमान्, कषायादिज-दुर्विकल्पान्-क्रोधादिजन्य-नानोल्लेखमयदुष्टचिन्तनानि त्यजन्परिहरन् कुर्यात्-करोतु ।।१४.२१ ।।
रत्न. - तत्रापि मनःसंवरस्योत्कर्षमाह
-
-
-
भवे समग्रेषु.. इति. व्याख्या - यो मनःसंवरः समग्रेष्वपि संवरेषु सत्सु शिवसंपदांमोक्षश्रीणां परं निदानं हेतुर्भवेत्, मनःसंवरं विना सर्वेऽपि वचः - कायिकाः संवरा निरर्थकाः इत्यर्थः, इद्धा - दीप्ता धीर्यस्य स इद्धधीर्जनः, तं मनःसंवरं कुर्यात्, किं कुर्वन् ? कषायादिभ्यो जाता ये दुर्विकल्पात्यजन्, कान् ? दुष्टचिन्तनानि तान्, आदिशब्देना - ऽविरत्यादिग्रहणमिति ।।१४.२१।।
[४४३] तदेवमात्मा कृतसंवरः स्यान्निःसङ्गताभाक् सततं सुखेन । निःसङ्गभावादथ संवरस्तद्
द्वयं शिवार्थी युगपद् भजेत ।।१४.२२ ।।
३१५
-
-
धनवि . - अथैतद्द्वारमुपसंहरन्नुपदिशति
'तदेवम्' इति, तत्-तस्मात् कारणाद् एवम् उक्तेन प्रकारेण कृतसंवरोनिष्पादितसकलकषाययोगनिरोधः सततं- निरन्तरं सुखेन - अप्रयासेन निसङ्गताभाक्पुत्र - कलत्रादिममताराहित्यवान्, आत्मा-जीवो भवेत्, अथ पुनर्, निःसङ्गभावाद्,