SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३१४ श्रीअध्यात्मकल्पद्रुमे [४४१] यस्यास्ति किञ्चिन्न तपो-यमादि, ब्रूयात् स यत् तत् तुदतां परान् वा । यस्यास्ति कष्टाप्तमिदं तु किं न, तभ्रंशभीः संवृणुते स योगान् ? ||१४.२०।। धनवि.-पूर्वमुपदिष्टमपि योगनिरोधं सिंहावलोकनन्यायात्, अनन्तरोक्तार्थसमर्थनार्थं च प्रकारान्तरेणोपदिशति - 'यस्यास्ति' इति, यस्य पुरुषस्य तपो-यमादि-तपः-संयमादि सुकृतं किञ्चित्किमपि नास्ति, स पुरुषो यत् तत् सावद्यं निरर्थकं वाऽसमञ्जसवृत्त्या वचो ब्रूयाद्-वदत्वित्यर्थः, वा-अथवा स पुमान् परान्-स्वव्यतिरिक्तान् तुदतां-अशुभमनोवाक्-काययोगादिना व्यथा जनयतु; तु-पुनर्, यस्य पुसं इदं तपःसंयमादि सुकृतं कष्टाप्तं-बहुप्रयासेन प्राप्तमस्ति तद्भशभी-तपःसंयमभ्रंशभीरुः स पुमान् मनो-वाक्-काययोगान् किं न संवृणुते ? - कथं न नियन्त्रयतीत्यर्थः ।।१४.२० ।। रत्न.-अथ मनोयोगादिसंवरमाह - यस्यास्ति..इति. व्याख्या-हे संयमिन् ! यस्य किञ्चिदपि तपः-चतुर्थ-षष्ठाऽष्टमादिरूपं, यमा-अहिंसा-सूनृता-ऽस्तेय-ब्रह्मा-ऽकिञ्चनतालक्षणाः पञ्च, ते आदौ यस्य तत् तपो-यमादि नास्ति, सः पुमानविरत इत्यर्थः, यत् तद् असंबद्ध ब्रूयाद्-जल्पेद्, वा-अथवा परान् प्रति तुदतां-व्यथतां, तुरिति विशेषे, यस्येदं तपोयमादि कष्टेन-कायक्लेशेनाप्तं-प्राप्तं वर्त्तते, तस्य तपो-यमादिनो भ्रंशोनाशः, तस्माद् भी:-भयं यस्य स तद्भशभीः पुमान् यत्यादिोगान्-मनो-वाक्कायसम्बन्धिनो व्यापारान् किं न संवृणुते ?, तस्य तु संवरीतुं युक्ता इति, यस्य किञ्चित् कांस्यादिभाजनमपि गन्तव्यं नास्ति, स कदाचिदनावृतद्वा निद्रातु, परं यस्य स्वर्ण-मण्यादिवस्तु गन्तव्यमस्ति सोऽनावृतद्वाः कथं निद्रात्वित्यर्थः ||१४.२०।।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy