________________
१५. शुभप्रवृत्तिशिक्षोपदेशाधिकारः
[४४५] आवश्यकेष्वातनु यत्नमाप्तोदितेषु शुद्धेषु तमोऽपहेषु । न हंत्यभुक्तं हि न चाप्यशुद्धं, वैद्योक्तमप्यौषधमामयान् यत् ।।१५.१।।
धनवि - अनन्तरद्वारे मिथ्यात्वादिसंवरोऽशुभव्यापारनिवृत्तिलक्षणः प्रतिपादितः, तेन तत्प्रतिपक्षशुभव्यापारप्रवृत्तिद्वारं दर्शयन्नाह यद्वाऽनन्तरद्वारे मिथ्यात्वादिसंवर उपदिष्टः, स च शुभप्रवृत्त्यधीन इति तद्द्वारं दर्शयन्नाह
—
अथ शुभप्रवृत्तिशिक्षोपदेशः - इति सुगमम्; तत्र शुभप्रवृत्तौ प्रथमं प्रतिदिनानुष्ठेयषडावश्यकप्रवृत्तिमुपदिशति -
·
'आवश्यकेषु' इति, आप्तोदितेषु भगवत्प्रतिपादितेषु शुद्धेषु निर्दोषेषुसामायिकादिविषयकदोषरहितेषु, तमोऽपहेषु-पुराकृतपापहरेषु, आवश्यकेषु - १. सामायिक २. चतुर्विंशतिस्तव ३. वन्दनक ४. प्रतिक्रमण ५. कायोत्सर्ग ६. प्रत्याख्यानाख्येषु नित्यकर्त्तव्येषु यत्नं प्रमादराहित्यलक्षणं प्रयत्नम्, आतनु-आसमन्तात् कुर्वित्यर्थः; हि इति निश्चितं यद् - यस्माद् वैद्योक्तमपि - धन्वंतरिप्रभृत्युक्तमप्यौषधं भेषजम्- अभुक्तम्- अनास्वादितम्, आमयान्- रोगान् न हन्तिनापनयतीति, च पुनर्-अशुद्धं सदोषं वैद्योक्तमप्यौषधमामयान् न हन्तीत्यर्थः, अत्रावश्यकमुपमेयमौषधमुपमानं, भगवानुपमेयो, वैद्य उपमानम्, आवश्यकप्रयत्नकरणमुपमेयमौषधभक्षणमुपमानम्, आवश्यके दोषा उपमेयमौषधे योगवैपरीत्यादयो दोषा उपमानमिति दृष्टान्त - दान्तिकयोजना ।
तत्र दोषस्वरूपं चेदं तत्र सामायिकदोषाः
-
[४४६] १.पल्हत्थी २. अथिरासण ३. दिसिपरिवत्ती य ४. कज्ज ५ . वट्ठभं ।
६. अइअंगुवंगगोवण ७. आलस ८. करडुक्क ९. मल १०.कंडू ।। [ ]||