________________
मिथ्यात्वादिसंवरोपदेशद्वारम् मुपदिशन्नाह -
‘बस्ति’ इति, बस्तिसंयममात्रेण - केवलमूत्राशयनिरोधेन ब्रह्म व्रतं के के कृत्रिमनपुंसकीकृतनर-तुरग - बलीवर्दादयो नारकाः संमूर्छिमाश्च न बिभ्रते ? न धरन्ति । अथ तात्त्विकं बस्तिसंयमं दर्शयन्नुत्तरार्द्धं वक्ति- तदा मनःसंयमतोमनःसंवरतो ब्रह्म धेहि धारय हे धीर ! चेद्यदि तत्फलार्थी- ब्रह्मचर्यफलं मोक्षस्तदर्थी-तदभिलाषी असीत्यर्थः ।।१४.१७।।
रत्न.-त्वक्संवरेऽपि विशेषमाह
बस्तिसंवरमात्रेण..इति व्याख्या - बस्तिः- मूत्राशयो मूत्रस्थानमित्यर्थः, बस्तिरित्युक्तेऽपि, स्थानात् स्थानी लक्ष्यते इति न्यायाद् बस्तिः पुंसः पुंश्चिनं स्त्रियाश्च स्त्रीचिह्नं, तस्य संयममात्रेणेति पूर्ववद्, ब्रह्मेति ब्रह्मचर्यं के के जनाः पुं-नपंसुकाः स्त्री - नपुंसकाश्च न ब्रिभ्रते ? अपि तु बहवो बिभ्रते, मैथुनशक्तेरभावादित्यर्थः परं हे धीर ! चेद्यदि तस्य ब्रह्मणः फलं भाववेदाभावलक्षणं, तस्यार्थोऽस्तीति, तत्फलार्थी त्वमसि - विद्यसे तर्हि मनसः संयमो-रोधस्ततो ब्रह्मेति ब्रह्मचर्यं धेहि-धरेति ।।१४.१७।।
,
-
[४३९] विषयेन्द्रियसंयोगा
-
३११
ऽभावात् के के न संयताः ? | राग-द्वेषमनोयोगा
भावाद् ये तु, स्तवीमि तान् ।।१४.१८।।
-
धनवि . – पृथग्- पृथगिन्द्रियपञ्चकसंवरमुपदिश्य समुदितेन्द्रियपञ्चकसंवरमुपदिशति
'विषय' इति, विषयाश्च - वीणादिशब्दादयः, इन्द्रियाणि च श्रोत्रादीनि तेषां परस्परं सम्बन्धाभावात्, के के दारिद्र्याद्युपद्रुता जन्तवः संयता न भवन्ति ? अपि तु सर्वेऽपि भवन्तीत्यर्थः तु पुनः राग-द्वेषयोर्मनसश्च परस्परं योगःसम्बन्धस् तस्याभावाद् ये संयता भवन्ति तान् संयतान् स्तवीमीति ।।१४.१८ ।।