________________
३१२
श्रीअध्यात्मकल्पद्रुमे
रत्न. - अथ विशेषतो निरूप्य, सामान्यतः सर्वेन्द्रियाण्याश्रित्य निरूपयति
विषयेन्द्रियसंयोगाभावात्-इति. व्याख्या-विषयाः-शब्द-रूप-गन्ध-रस-स्पर्शाः, पञ्च, इन्द्रियाणि पञ्च, विषयाश्च इन्द्रियाणि च विषयेन्द्रियाणि तेषां संयोग- एकत्र मिलनं, तस्याभावात्, के के न ये संयता- विरताः सन्ति - यमिनः सन्ति ?, अपि तु सर्वेऽपि संयता एवेति, तुरिति विशेषे, राग-द्वेष-मनो- योगानामभावाद् ये संयता- विरताः सन्ति, तान् प्रति स्वीमि ।।१४.१८।।
[ ४४०] कषायान् संवृणु प्राज्ञ !, नरकं यदसंवरात् ।
महातपस्विनोऽप्यापुः, करटोत्करटादयः ।।१४.१९।।
-
धनवि.—अनन्तरोक्तराग-द्वेषसंवराधिकारात् तत्सहचरितानां तन्मूलभूतानां वा कषायाणां संवरमुपदिशन्नाह
'कषायान्' इति, हे प्राज्ञ ! पण्डित ! कषायान्-क्रोध-मान-माया-लोभान् संवृणु-सम्यक् प्रकारेणाच्छादय, क्षयेणोपशमेन क्षयोपशमेन वाऽनुदयावस्थान् कुर्वित्यर्थः, यदसंवराद्-येषां कषायाणाम्, असंवराद्-उदयात् करटोत्करटादयःकरटोत्करटप्रमुखा महातपस्विनः- उग्रतपःकर्त्तारोऽपि नरकमापुः-प्रापुः ।
तत्र करटोत्करटचरितं चेदम् -
-
करटोत्करटौ साधू, मातृष्वस्रेयकौ मिथः । भ्रातरौ ब्राह्मणावध्यापकावात्तार्हतव्रतौ ।।१।।
अभूत् पुर्याः कुणालायास्तयोर् 'निर्धमनाग्रतः । वर्षासु वसतिर् नीरैः, प्लाव्यतां मेति देवता ।।२।।
१. 'णिद्धमण' (दे० ४.३९) इति देशीशब्दस्य संस्कृतीकृतोयं शब्दः - मोरी, गटर इत्यर्थकः ।