________________
३१०
श्रीअध्यात्मकल्पद्रुमे न त्यजन्ति?, अपि तु पूर्वोक्ताः सर्वेऽपि त्यजन्ति, परं हे आत्मन् ! यदि तपसः फलमिच्छसि तदा मनसा-मनोयोगपूर्वकं, तान् इष्टान् मधु-मांस-पुष्प-फलादीनां त्यजेति ||१४.१५।।
[४३७] त्वचा संयममात्रेण,
स्पर्शान् कान् के त्यजन्ति न ? | इष्टानिष्टेषु चैतेषु,
रागद्वेषौ त्यजन् मुनिः ||१४.१६ ।। धनवि.-अथ स्पर्शनेन्द्रियसंवरमुपदेष्टुकाम आह - 'त्वचः' इति, त्वचः संयममात्रेण-केवलत्वगिन्द्रियसंवरेण स्पर्शान्-सुखस्पर्शान् के सूक्ष्मबादरनिगोदजीवाः सूक्ष्मबादर-पृथ्वीकायिकादयो नारकादयो वा न त्यजन्ति ?, अपि तु सर्वेऽपि सुखस्पर्श परिहरन्तीत्यर्थः । उत्तरार्द्धमत्रापि पूर्ववद् भाव्यम् [स्पर्शस्थाने त्वचः इति] ।।१४.१६ ।। _रत्न.-त्वचः संयममात्रेण..इति. व्याख्या-पूर्ववत्, परं त्वचःसंयममात्रत्वं त्वग्रोगकृतमवसेयं, भावत्वगिन्द्रियोपघातजमित्यर्थः, एकेन्द्रियादीनां संज्ञिपर्याप्तपञ्चेन्द्रियपर्यन्तानां त्वग्विषयस्तु दृश्यत एव, तेन रोगकृतस्त्वक्संयमोऽवसेयः, कान् ? - स्पर्शान्, के न त्यजन्ति ?, अपि तु सर्वेऽपि त्यजन्ति, चेति विशेषे, इष्टानिष्टेषु नवनीता-ऽर्कतूल-बूर-गोजिह्वा-क्रकच-शाकपत्रादिजेषु राग-द्वेषौ प्रति त्यजन् मुनिः स्यादिति ।।१४.१६ ।।
[४३८] बस्तिसंयममात्रेण,
ब्रह्म के के न बिभ्रते ? | मनःसंयमतो धेहि,
धीर ! चेत् ? तत्फलार्थ्यसि ।।१४.१७ ।। धनवि.-त्वगिन्द्रियमुपदिश्य दुर्जयकामोद्दीपकत्वगिन्द्रिविशेषं बस्तिसंवर