________________
३०१
मिथ्यात्वादिसंवरोपदेशद्वारम्
जिह्वाच्छेदपणोऽकार्षीर्यद् दर्पात् तदसांप्रतम् । अविमृश्य विधातारो, भवन्ति विपदां पदम् ।।४६ ।। अवदत् पर्वतोऽप्येवं, कृतं तावदिदं मया । यथा तथा कृतस्याम्बा ! ऽकरणं नहि विद्यते ।।४७।। साऽथ पर्वतकाऽपायपीडिता हृदि शल्यिता । वसुराजमुपेयाय, पुत्रार्थे क्रियते न किम् ? ||४८ ।। दृष्टः क्षीरकदम्बोऽद्य, यदम्ब ! त्वमसीक्षिता । किं करोमि प्रयच्छामि ?, किं वेत्यभिदधे वसुः ||४९|| साऽवादीद् दीयतां पुत्रभिक्षां मह्यं महीपते ! | धनधान्यैः किमन्यैर्मे, विना पुत्रेण पुत्रक ! ||५० ।। वसुरूचे मम मातः !, पाल्यः पूज्यश्च पर्वतः । गुरुवद् गुरुपुत्रेऽपि, वर्तितव्यमिति श्रुतिः ।।१।। कस्याद्य पत्रमुत्क्षिप्तं, कालेनाऽकालरोषिणा ? | को जिघांसुतिरं मे, ब्रूहि मातः ! किमातुरा ? ||५२ ।। अजव्याख्यानवृत्तान्तं, स्वपुत्रस्य पणं च तम् । त्वं प्रमाणीकृतश्चासीत् व्याख्या याऽर्थयते स्म सा ।।५३।। कुर्वाणो रक्षणं भ्रातुरजान् मेषानुदीरय । प्राणैरप्युपकुर्वन्ति, महान्तः किं पुनर्गिरा ? ||५४।। अवोचत वसुर् मातर् ! मिथ्या वच्मि वचः कथम् ? | प्राणात्ययेऽपि शंसन्ति, नासत्यं सत्यभाषिणः ।।५।। अन्यदप्यभिधातव्यं, नासत्यं पापभीरुणा |
गुरुवागन्यथाकारे, कूटसाक्ष्ये च का कथा ? ||५६ ।। १. स-विपुला० । २. र-विपुला० । ३. वसुपतिर्मि० - मु० ।