________________
३००
श्रीअध्यात्मकल्पद्रुमे तया प्रसिद्ध्या राजानो, भीतास्तस्य वशं ययुः । सत्या वा यदि वा मिथ्या, प्रसिद्धिर्जयिनी नृणाम् ।।३५।। आगाच्च नारदोऽन्येद्युस्ततश्चैक्षिष्ट पर्वतम् । व्याख्यानयन्तमृग्वेदं, शिष्याणां शेमुषीजुषाम् ।।३६ ।। अजैर्यष्टव्यमित्यस्मिन्, मेषैरित्युपदेशकम् । बभाषे नारदो भ्रातर् ! भ्रान्त्या किमिदमुच्यते ? ||३७।। त्रिवार्षिकाणि धान्यानि, न हि जायन्त इत्यजाः । व्याख्याता गुरुणाऽस्माकं, व्यस्मार्षीत् केन हेतुना ? ||३८।। ततः पर्वतकोऽवादीदं तातेन नोदितम् । उदिताः किंत्वजा मेषास्तथैवोक्ता निघण्टुषु ।।३९।। जगाद नारदोऽप्येवं, शब्दानामर्थकल्पना । मुख्या गौणी च तत्रेह, गौणी गुरुरचीकथत् ।।४०।। गुरुर्धर्मोपदेष्टैव, श्रुतिधर्मात्मिकैव च । द्वयमप्यन्यथा कुर्वन्, मित्र ! मा पापमर्जय ।।४१।। साक्षेपः पर्वतोऽजल्पदजान् मेषान् गुरुर्जगौ । गुरूपदेशशब्दार्थोल्लङ्घनाद् धर्ममर्जसि ? ||४२ ।। मिथ्याभिमानवाचो हि, न स्युर् दण्डभयान्नृणाम् । स्वपक्षस्थापने तेन, जिह्वाच्छेदः पणोऽस्तु नः ||४३।। प्रमाणमुभयोरत्र, सहाध्यायी वसुर्नृपः । नारदा प्रतिपेदे तन्न क्षोभः सत्यभाषिणाम् ।।४।। रह: पर्वतमूचेऽम्बा, गृहकर्मरताऽप्यहम् । अजास्त्रिवार्षिका धान्यमित्यश्रौषं भवत्पितुः ।।४५।।
१. म-विपुला० ।