________________
२९९
मिथ्यात्वादिसंवरोपदेशद्वारम्
भूत्वा गुरोः प्रसादेन, सर्वशास्त्रविशारदः । नारदः शारदाम्भोदशुद्धधीः स्वां भुवं ययौ ।।२४।। नृपचन्द्रोऽभिचन्द्रोऽपि, जग्राह समये व्रतम् । ततश्चासीद् वंसुराजो, वासुदेवसमः श्रिया ।।२५।। सत्यवादीति स प्राप, प्रसिद्धिं पृथिवीतले । तां प्रसिद्धिमपि त्रातुं, सत्यमेव जगाद सः ||२६ ।। अथैकदा मृगयुणा, मृगाय मृगयाजुषा । चिक्षिपे विशिखो विन्ध्यनितम्बे सोऽन्तराऽस्खलत् ।।७।। इषुस्खलनहेतुं स, ज्ञातुं तत्र ययौ ततः । आकास्फिटिकशिलामज्ञासीत् पाणिना स्पृशन् ।।२८ ।। स दध्याविति मन्येऽस्यां, सङ्क्रान्तः परतश्चरन् । भमिच्छायेव शीतांशौ, ददृशे हरिणो मया ।।२९ ।। पाणिस्पर्शं विना नेयं, सर्वथाऽप्युपलक्ष्यते । अवश्यं तदसौ योग्या, वसोर्वसुमतीपतेः ।।३०।। रहो व्यजिज्ञपद् राज्ञो, गत्वा तां मृगयुः शिलाम् । हृष्टो राजाऽपि जग्राह, ददौ चास्मै महद् धनम् ।।३१।। स तया घटयामास, च्छन्नं स्वासनवेदिकाम | तच्छिल्पिनोऽघातयच्च, नात्मीयाः कस्यचिनृपाः ।।३२ ।। तस्यां सिंहासनं वेदौ, चेदीशस्य निवेशितम् । सत्यप्रभावादाकाशस्थितमित्यबुधज्जनः ।।३।। सत्याद्धि तुष्टाः सान्निध्यमस्य कुर्वन्ति देवताः ।
एवमूर्जस्विनी तस्य, प्रसिद्धिानशे दिशः ।।४।। १. स-विपुला० । २. न-विपुला० । ३. सिद्धान्तविरुद्धं भाति. सं. । ४. म-विपुला० ।