________________
२९२
श्रीअध्यात्मकल्पद्रुमे शुद्ध्यमानाशयो भूपः, स्वं निन्दत्यतिचारिणम् । मनोबद्धानि कर्माणि, मनसैव क्षिपस्तदा ।।१९।। श्रेणिकः पुनरप्राक्षीत्, स राजर्षिः प्रभो ! ऽधुना । यादृग्ध्यानोऽस्ति तत्रैव, मृतो गच्छति कां गतिम् ? ||२०।। स्वाम्यूचे संप्रति मृतोऽनुत्तरेषु सुरो भवेत् । अथोचे श्रेणिकः स्वामिन् !, पूर्वमन्यत् प्र(न्य)रूपि किम् ! ||२१||
किं वाऽन्यथा मयाऽज्ञायि ?, स्वाम्याह न मयाऽन्यथा । ऊचे, त्वयाऽन्यन्नाश्रावि, श्रेणिकः स्माह तत् कथम् ? ||२२।। स्वाम्यथोवाच तद्वृत्तं, सर्वं श्रेणिकभूभुजे । प्रसन्नचन्द्रराजर्षेः, पार्श्वेऽभूदुम्दुभेर्ध्वनिः ।।२३।। देवैः कलकलश्चक्रे, राजोचे किं महः ? प्रभो ! स्वाम्याह तस्य राजर्षेः, शुद्ध्यमानात्मनोऽधुना ।।२४।। कुर्वन्ति केवलोत्पत्तौ, महिमानं सुरासुराः ।
दृष्टान्तोऽभूत् तदेकोऽयमुत्सर्गे द्रव्य-भावयोः ।।२५।। इति श्रीऋषिमण्डलवृत्त्यनुसारेण लिखितम् ।।१४.३।। रत्न.-पुनस्तत्र दृष्टान्तगर्भं श्लोकमाह -
प्रसन्नचन्द्रराजर्षेः. इति. व्याख्या-हे देहिन ! प्रसन्नचन्द्रराजर्षेर्मनसः प्रसरोदुर्ध्यानतया व्याप्तिः, तथा संवरो-दुर्ध्यानप्रसरनिवारणलक्षणः, तौ क्षणादपिक्षणमात्रतोऽपि यथाक्रमं नरकस्य सप्तमनरकस्य शिवस्य-मोक्षस्यापि हेतुभूती जाताविति, तत्र दृष्टान्तविस्तरः श्रीहेमसूरिकृतत्रिषष्टिशलाकापुरुषचरित्रस्यपरिशिष्टपर्वतोऽवसेय इति ।।१४.३।।