________________
मिथ्यात्वादिसंवरोपदेशद्वारम्
वराकः सोऽधुना डिम्भो, दायादैः परिभूयते । उपद्रुतं पुरं लोको, दुःखे बहुरपात्यत ।।९।।
तदद्रष्टव्य एवायमित्याकर्ण्याकुपनमुनिः । दध्यौ पुत्रं मयि सति, दुर्धीरपकरोति कः ? ।।१०।।
महासङ्ग्राममारूढं, श्रेणिकः क्ष्माभृदीयिवान् ।
स दृष्ट्वा तमवन्दिष्ट कायोत्सर्गधरं मुनिम् ।।११।।
1
तं नेषदपि दृष्ट्याऽपि स पुनः समभावयत् । श्रेणिकोऽचिन्तयन्नूनं, शुक्लध्याने स्थितोऽस्त्यसौ ।।१२।।
ततः श्रीश्रेणिको वीरं, नत्वाऽप्राक्षीज्जगत्प्रभो ! । प्रसन्नचन्द्रराजर्षिर्यादृग्ध्यानो मया नतः ।। १३ ।।
तत्र कालं स चेत् कुर्यात् तस्य जायेत का गतिः ? । बभाषे भगवान् वीरः, सप्तम्यामवनौ गतिः ।।१४।।
1
तच्छ्रुत्वा श्रेणिको दध्यौ हा किमेतन्मया श्रुतम् ? । अत्रान्तरेऽस्य राजर्षेः, सङ्ग्रामारूढचेतसः ।।१५।।
प्रधानरिपुणैकेन, युद्ध्यमानस्य निर्भयम् ।
निष्ठां गतानि शस्त्राणि, शिरस्त्राणे करं 'न्यधात् ||१६||
एतेनैतं हनिष्यामि, हताः सर्वे परेऽरयः ।
यावत् पस्पर्श मौलिं स, तावदग्रेऽस्ति लुञ्चितम् ।।१७।।
ततः संवेगमापन्नो राजर्षिर्, दध्यिवानिदम् ।
·
'आः किं चक्रे मया धिग् धिग्, विराद्धं प्रथमं व्रतम्' ।।१८।।
१. . 'व्यधात्' - मु० ।
२९१