________________
मिथ्यात्वादिसंवरोपदेशद्वारम्
[४१७] मनोऽप्रवृत्तिमात्रेण, ध्यानं नैकेन्द्रियादिषु । धर्म्य-शुक्लमनःस्थैर्य
भाजस्तु ध्यायिनः स्तुमः ।। १४.४।।
-
धनवि . - अथ पवनसाधनाधिकारिकृतमनोरोधस्यां-ऽकिञ्चित्करत्वं, धर्मध्यानाधिकारिकृतमनोरोधस्य च साधकत्वं दर्शयन्नुपदिशति
'मनोऽप्रवृत्ति' इति, मनोऽप्रवृत्तिमात्रेण चेतसः प्रवृत्त्यभावमात्रेण संज्ञिपञ्चेन्द्रियातिरिक्तेषु प्राणिषु मनसोऽभावान्मनःप्रवृत्त्यभावाद् - एकन्द्रियादिषु पृथिवीकायिकाऽप्कायिक-तेजः कायिक-वायुकायिक- वनस्पतिकायिकेषु, आदिपदाद् द्वीन्द्रियत्रीन्द्रिय- चतुरिन्द्रियेषु मनोऽप्रवृत्तिरूपं ध्यानं - योगाङ्गं न भवति, किंच-प्रत्युत पवनसाधनेन मनोरोधस्य धर्मध्यान- शुक्लध्यानान्तरायकारित्वादकिञ्चित्करत्वम्, अत एव श्रीहेमसूरिकृतश्रीयोगशास्त्रे पञ्चमप्रकाशे
"न च प्राणायामो मुक्तिसाधने ध्याने उपयोगी, असौमनस्यकारित्वाद्, यदाहुः [चेइयवंदणमहाभासे]
[४१८] ऊसासं न निरंभइ आभिग्गहिओ वि किमुय चेट्ठाए ? | सज्जमरणं निरोहे सुहुमोसासं तु जयणाए ।।
—
-
२९३
-
[४३१]।। 'इत्यादि,
तु पुनर्, धर्म्य-शुक्लमनःस्थैर्यभाजो-धर्म्य-शुक्लध्यानाभ्यां मनःस्थैर्यं भजति (भजन्ति) तथा तान्, ध्यायिनो-ध्यानकर्तृन् वयं स्तुमः स्तुतिगोचरान् कुर्म इति, अत्र धर्मेणोपेतं धर्म्यम्, ध्यानस्वरूपं च
[ध्यानशतके]
१. उच्छ्वासं न निरुणद्धि आभिग्रहीकोऽपि किमुत चेष्टायां ? । सद्योमरणं नीरोधे सूक्ष्मोच्छ्वासं तु यतनया ||१||
[४१९] "जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं । तं हुज्ज भावणा वा अणुपेहा वा अहव चिंता ।। [२] ।।