SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २८३ यतिशिक्षोपदेशद्वारम् तस्य भरः-समूहः, स आदौ यस्य तन्निहिचिन्तादिभरादि, तस्याभावे सत्यपि, उदरभरण-वस्त्र-पात्र-पुस्तका-ऽऽदिचिन्ता-राजभय-चौरभयेहलोकभयाद्यभावे सतीत्यर्थः, प्रेत्य-परभवे हिताय यत्नः किं न क्रियते ?, अपि तु कर्तुं युक्त इति, किं कृत्वा ? - अवाप्य, कान ? - गुरून् प्रति, किं कृत्वा ? - अपहायत्यक्त्वा , किं ? - गेहम्, अपि पुनरर्थे, पुनः किं कृत्वा ? - अधीत्यपठित्वाऽपीत्यर्थः, कानि ? - शास्त्राणि, किंलक्षणानि? - तत्त्वप्ररूपिका वाचो येषु तानि तत्त्ववाञ्चि, आगमशास्त्राणीत्यर्थः, इयत्यां सामग्र्यां मिलितायां सत्यां, यन्न हितं करोषि, तदयुक्तं करोषीत्युपदेशः ।।१३.५४ ।। [४०३] विराधितैः संयमसर्वयोगैः, पतिष्यतस्ते भवदुःखराशौ । शास्त्राणि शिष्योपधिपुस्तकाद्या, भक्ताश्च लोकाः शरणाय नाऽलम् ||१३.५५।। धनवि.-अनन्तरं 'प्रेत्यहिताय संयमे यत्नं कुरु'इत्यर्थादुपदिष्टं, तेन संयमविराधनायाः फलं दर्शयन्नुपदिशति - 'विराधितैः' इति, संयमसर्वयोगैः-संयमस्य सकलव्यापारैः समितिगुप्तिसत्यापनप्रभृतिभिः, विराधितैः-खण्डितैर्, भवदुःखराशौ-सांसारिकदुःखसमूहे, पतिष्यतः-अधो गमिष्यतः. ते तव, शास्त्राणि-आचाराङ्गादीनि व्याकरणादीनि वा, पठितानीति गम्यम्, च पुनः, शिष्योपधिपुस्तकाद्याः प्रसिद्धाः, च पुनर्, भक्ताः श्रावक-श्राविकाः शरणाय-भवदुःखराशौ पतिष्यतस्त्राणाय, नाऽलं-न समर्था भवन्तीति ||१३.५५।। . --- रत्न.-अथ 'संयमं गृहीत्वा संयमविराधनायै मा प्रवर्तस्व'इत्युपदिशति.विराधितैः. इति. व्याख्या-हे यते ! विराधितैः-संयमस्य-चारित्रस्य सर्वयोगामूलगुणोत्तरगुणादिकाः, तैर्हेतुभिः, ते-तव, दुःखराशौ पतिष्यतः सतः, शास्त्राणि आगमादीनि, शिष्या, उपधयो-वस्त्रपात्रादयः, पुस्तकम्-अक्षरन्यासरूपं, तान्याद्यानि
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy