________________
२८४
श्रीअध्यात्मकल्पद्रुमे येषां ते, आद्यशब्देन हिंगुल-हरिताल-मषी-झलमलि-डब्बक-पट्टिका-पृष्ठकादीनां पुस्तकोपकरणानां सङ्ग्रहः, च पुनर्, भक्ता लोकाः-श्रावक-श्राविकादयः शरणायशरणं दातुं न अलं-समर्थाः, किन्तु निःशरण एकाक्येव दुःखराशौ पतिष्यसीति भावः ।।१३.५५।।
[४०५] यस्य क्षणोऽपि सुरधामसुखानि पल्य
कोटीनॄणां द्विनवतिं ह्यधिकां ददाति | किं हारयस्यधम ! संयमजीवितं तद् ?,
हा हा प्रमत्त ! पुनरस्य कुतस्तवाप्तिः ? ||१३.५६ ।। धनवि.-अथ प्रमादेन संयमविराधानायामेतावती शुभफलहानिः स्यादित्युपदिशति -
'यस्य क्षणोऽपि' इति, नृणां-मनुष्याणां, यस्य संयमजीवितस्य, क्षणोऽपिमुहूर्तोऽपि, सुरधामसुखानि-देवलोकसुखानि, अधिकां-समधिकां द्विनवति-द्विनवतिसङ्ख्याः पल्यकोटी-पल्योपमकोटीर्यावद्, ददाति-प्रयच्छति, एतदुक्तार्थसंवादश्चायम्[४०६] "सामाइयं कुणंतो समभावं सावओ घडिअदुगं ।
आउं सुरेसु बंधइ इत्तियमित्ताइं पलिआई ।। [संबोध प्र.१२३०] [४०७] बाणवई कोडीओ लक्खा गुणसठि सहस पणवीसं ।
नवसय पणवीसाए सतिहा अडभागपलिअस्स" ।। [संबोध प्र.१२३१] अङ्कतोऽपि ९२,५९,२५,९२५ । ३/८, [ ] इति प्रतिक्रमणसूत्रवृत्तौ ।।
हे अधम ! - हे नीच ! तत् संयमजीवितं किं कथं-कस्माद्धेतोः, हारयसि ? - अज्ञानतो मुधा त्यजसि; हा हा इति खेदे, हे प्रमत्त! - हे प्रमादिन् ! पुन:द्वितीयवारमस्य संयमजीवितस्य, आप्तिः-लाभः, कुतो हेतोः ?, भविष्यतीति शेषः ।।१३.५६ ।।
रत्न.-अथ मुहूर्त्तमात्रं संयमजीवितस्य फलं वदन्, प्रमादं मा कार्षीरित्यु