SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २८२ श्री अध्यात्मकल्पद्रुमे १. प्राणातिपात २. मृषावाद ३. अदत्तादान ४ मैथुन ५. परिग्रहाविरमण १. श्रोत्र २. चक्षुर् ३. घ्राण ४. रसन १०. स्पर्शनेन्द्रियानिग्रह ११. क्रोध १२. मान १३. माया १४. लोभाजय १७. मनो- वचः - कायदुष्प्रवर्त्तना लक्षणाः, तथा हास्यादयो १. हास्य २. रति ३. अरति ४ शोक ५. भय ६. जुगुप्सा लक्षणाः षट्, द्विषः सन्ति, तेन त्वमेतेभ्यो रिपुभ्यो बिभ्यद्-भयं गच्छन्, चर - विहर, बिभ्यदेव सर्वं कुर्विति ।।१३.५३।। [४०२] गुरूनवाप्याप्यपहाय गेह मधीत्य शास्त्राण्यपि तत्त्ववाञ्चि । निर्वाहचिन्तादिभराद्यभावे ऽप्यृषे ! न किं प्रेत्यहिताय यत्नः ? ।।१३.५४ ।। धनवि.—अनन्तरं 'चर' इत्यादिना भयजनिकाऽसंयममार्गप्रवृत्तिरुपदिष्टा, अथ च शेषसकलसामग्रीसन्निधानजनितां संयमप्रवृत्तिमुपदिशति · 'गुरूनवाप्य' इति, हे ऋषे । हे साधो ! गुरूनपि-शुद्धमार्गोपदेशकान् अपि, अवाप्य-प्राप्य गेहम् अपि सकलसङ्गमूलं गृहम् अपि अपहाय त्यक्त्वा तत्त्ववाञ्चि-तत्त्वप्रतिपादकानि शास्त्राण्यपि - आचाराङ्गादीन्यधीत्य पठित्वा निर्वाहचिन्तादिभराद्यभावे अपि प्रेत्यहिताय - परलोकसुखाय, किं प्रश्ने यत्नः- उद्यमोऽर्थात् संयमे नास्ति ?, अत्र निर्वाह :- सुखाजीविका, तस्याश्चिन्ता - चिन्तनं, सा आदौ - प्रथमं यासां पुत्रचिन्ता-पुत्रीचिन्ता - कलत्रचिन्ता-गृहचिन्ता - राज्यचिन्तादीनां ता निर्वाहचिन्तादयः, तासां भरः- समूहः, स आदौ येषां ते निर्वाहचिन्तादिभरादयः, तेषाम् अभावे-असत्त्वेऽपि, अत्र अपिशब्दाद् गृहव्यापार-राज्यव्यापार-यानपात्रव्यापारभरादिपरिग्रहः ।।१३.५४।। रत्न.—अथ सर्वस्यां सामग्र्यां सत्यां हितं किं न करोषीत्युपदिशतिगुरूनवाप्य.. इति. व्याख्या - हे ऋषे ! त्वं निर्वाहो-निर्वहणमुदरभरणादिकः, तस्य चिन्ता-‘कल्ये उदरभरणं कथं करिष्यामि इत्यादिरूपा, सैवादौ यस्य तत् निर्वाहचिन्तादि,
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy