________________
यतिशिक्षोपदेशद्वारम्
२८१
कथमपि..इति. व्याख्या - हे यते ! त्वं कथमपि महता कष्टेन बोधिरत्नंसम्यक्त्वरत्नं समवाप्य किमपि तत् हितं कुरु कुरु, अत्यन्तादरख्यापनार्थं वीप्सायां द्विर्वचनं, किंलक्षणं ? - दुरापं- दुष्प्राप्यं, कैः ? - युगसमिलादिनिदर्शनानि "चुल्लग-पासग-धन्ने" इतिगाथोक्तानि तैः किं कुर्वन् ? - अगच्छन्, कां ? रिपूणाम्-अन्तरङ्गाणां षण्णां कषायादीनां वश्यतां - पराधीनतां, यतो हि तावत् त्वमर्थितं शं-सुखं वाञ्छितं मोक्षसुखमित्यर्थः लभसे - प्राप्नोषि इति ।।१३.५२।।
-
1
धनवि . - अनन्तरं दर्शयन्नुपदिशति
[४०१] द्विषस् त्विमे ते विषय-प्रमादा
असंवृता मानस-देह-वाचः ।
असंयमाः सप्तदशापि हास्या
दयश्च बिभ्यच्चर नित्यमेभ्यः ।।१३.५३।।
'रिपुवश्यतामगच्छन् 'इत्युक्तमत एव तत्त्वतो रिपून्
-
"
..
'द्विषस् त्विमे' इत्यादि, तुः पुनरर्थे वाक्यालंकारार्थे वा, ते-तव, इमे अनुभवप्रत्यक्षा, विषय-प्रमादाः - विषयाश्च प्रमादाश्च विषय-प्रमादाः, तथा असंवृताःसंवररहिता, मानस-देह- वाचो-मनो-वचन-कायाः, च पुनः सप्तदश- सप्तदशभेदा, असंयमाः-पृथिव्याद्यसंयमव्यापाराः च पुनः हास्यादयो- हास्य- रत्यरति-शोक-भयजुगुप्सारूपा, द्विषः-अन्तरङ्गारयस्सन्ति; एभ्यः अनन्तरेभ्यो द्विड्भ्यो नित्यंसर्वकालं, बिभ्यद्-द्भयं गच्छन्, चर-संयममार्गे गच्छेत्यर्थः ।।१३.५३।।
रत्न. - अथ 'रिपूणां नामज्ञापनपूवमेतेभ्यो बिभ्यत्.. तिष्ठेत्युपदिशति द्विषस्त्विमे ते. इति व्याख्या- हे यते ! ते तवैते, तुरिति विशेषज्ञापने, विषयाः प्रमादाश्च विषय-प्रमादाः, प्रत्येकं पञ्च पञ्च द्विषो - वैरिणः सन्ति च पुनर्मानस-देह-वाचोमनः-काय-वचनानि, किंलक्षणाः ? - असंवृताः- चपलतया मुक्ता' इत्यर्थः, संवृतास्तु धर्मसाधनं भवन्तीत्यसंवृता इति विशेषणं सार्थकं च पुनः सप्तदशाप्यसंयमाः
·
-
१. द्विषां - मु० । २. 'मोकला' छुट पामेला ए अर्थ छे.
-