SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ यतिशिक्षोपदेशद्वारम् २६७ __ महातपो-ध्यान..इति. व्याख्या हे यते ! यदि महातपो-मासक्षपणादिकं, ध्यान-प्राणायामादि, परीसहाः द्वाविंशति, ते आदौ यस्य तत् महातपो-ध्यानपरीषहादि प्रति धतु-धरणाय ईशः-समर्थो न भवसि, किंलक्षणं? - सत्त्वेनधर्मग्रहणे धर्मिग्रहणम् इतिन्यायात्-सत्त्ववता पुरुषेण साध्यं-साधनीयं, हे शिवार्थिन्! हे मोक्षाभिलाषिन् ! तत् तर्हि भावना द्वादशानित्यत्वादिकाः, तथैकैकस्य महाव्रतस्य पञ्चपञ्चसद्भावात् पञ्चविंशतिर्वा, ताः प्रति किं न धत्से ?, दधसे, तथा पुनः समितीः पञ्चेर्याप्रभृतीः, प्रति, चस्योभयत्रापि योजनात, च पुनस्, तिस्रो गुप्ती:-मनोगुप्त्याद्याः प्रति किं न धत्से, यतः किंलक्षणाः ? - मनसा एव प्रसाध्यन्ते ता मनःप्रसाध्याः, एताश्चाल्पसत्त्ववताऽपि पुरुषेण साध्यास्ततः साधयेत्यर्थः ||१३.३९।। [३७८] अनित्यताद्या भज भावनाः सदा, यतस्व दुःसाध्यगुणेऽपि संयमे | जिघत्सया ते त्वरते ह्ययं यमः, श्रयन् प्रमादान्, न भवाद् विभेषि किम् ? ||१३.४०।। धनवि.-अथानन्तरोक्तां मनःप्रसाध्यां भावनामादावुपदिशति - 'अनित्याद्या' इति, अनित्यताद्या भावनाः सदा-निरन्तरं भज-श्रय, 'तत्रअनित्यता आद्या-प्रथमा यासां ता, भाव्यते-वास्यते धर्मध्यानेन संस्क्रियते आत्मा याभिरिति भावनाः, अत्र आद्यपदेन शेषैकादशभावनापरिग्रहः, भावनाविस्तरो योगशास्त्रादवसेयः; अत्र'अपि'शब्दः चाऽर्थः, तेन च पुनर्दुःसाध्यगुणे-दुःसाध्या मूलगुणा उत्तरगुणाश्च यस्य तस्मिन् संयमे, यतस्व-यत्नं कुरु; हि यतः कारणात्, ते-तव जिघत्सया-अत्तुमिच्छया,अयं सर्वलोकप्रसिद्धो यम-कृतान्तः त्वरते-उत्सुको भवतीत्यर्थः, अत्र अयं यम इतिस्थाने असंयम इति पाठः, स च प्रसिद्धार्थ एवेति, ततः प्रमादान्-मद्यादीन् श्रयन्-भजन् भवात्-संसारात् किं न बिभेषि ? - किं न भयं यासि ||१३.४०।। १. 'अत्र०' - मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy