SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २६८ रत्न. - पुनरपि प्रकारान्तरेण तदेव ज्ञापयन्नाह अनित्यताद्या... इति व्याख्या - हे यते ! अनित्यताद्या भावना द्वादश प्रति सदा-निरन्तरं भज, तथा मा सुकुमारो भव, अपि तु कर्कशो भूत्वा दुःसाध्या मूलगुणा उत्तरगुणाश्च यस्य सः तस्मिन्नपि संयमे चारित्रे यतस्व-यत्नं कुरु, हि यस्मात् कारणाद्-अयं यमो - मृत्युर्जेनमते आयुः क्षयलक्षणः, ते तव जिघत्सया'खादितुमिच्छया, त्वरते-त्वरां कुरुते, दिनं दिनं प्रति समीपमायातीति, हे यते ! त्वं प्रमादान्-निद्रादीन् प्रति श्रयन् किं न भवाद् बिभेषि ? - न भयमाप्नोषि, किं तु भेतुं युक्तमिति ।।१३.४० ।। - [३७९] हतं मनस्ते कुविकल्पजालैर्वचोऽप्यवद्यैश्च वपुः प्रमादैः । लब्धीश्च सिद्धीश्च तथापि वाञ्छन्, मनोरथैरेव हहा हतोऽसि ।। १३.४१ ।। - श्रीअध्यात्मकल्पद्रु धनवि.–अथानन्तरोक्तं मनःप्रसाध्यं गुप्तित्रयमुपदिशति ‘हतं मनस्ते' इति, ते-तव मनः- चित्तं कुविकल्पजालैः-स्त्रीसेवाचिन्तनादिदुर्ध्यानसमूहैर्-हतं-हतप्रायं जातं वचोऽपि ते-तव-अवद्यैः-अलीकभाषणादिभिः पापैर्हतम्-अशुभं जातं, च पुनः शरीरं प्रमादैः- प्रमादाचरणैर्हतम्-अशुभं जातं; तथापि-एवं गुप्तित्रयाभावेऽपि लब्धीश्च - गौतमादेरिवामर्षौषध्यादिकाः, सिद्धीश्च - लघिमादिका, वाञ्छन् - अभिलषन्, हहा इति खेदे मनोरथैरेव - लब्धिसिद्धिवाञ्छालक्षणैरेव हतः - तिरस्कारविषयीभूतोऽसि ।। अत्रोक्तार्थे पाठान्तरं दर्शयति , १. स्वादितु० मु० । "दग्धं मनो मे कुविकल्पजालैर्वचोऽप्यवद्यैश्च वपुः प्रमादैः । लब्धीश्च सिद्धीश्च तथापि वाञ्छन्, मनोरथैरेव हहा विहन्य ।। १३.४१।।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy