________________
२६६
श्रीअध्यात्मकल्पद्रुमे [३७५] देवलोगसमाणो य, परियाओ महेसिणं ।।
रयाणां अरयाणं च, महाणरयसालिसो त्ति' ।। [ ] तथा केवलं रतानामित्युक्तम् - [३७६] न च राजभयं न च चौरभयं, न च वृत्तिभयं न वियोगभयम् । इहलोकसुखं परलोकहितं, श्रमणत्वमिदं रमणीयतरम् ।। [ ]
इति ।।१३.३८।। [३७७] महातपो-ध्यान-परीषहादि,
न सत्त्वसाध्यं यदि धर्तुमीशः | तद् भावनाः किं समितीश्च गुप्तीर्
धत्से शिवार्थिन् ! न मनःप्रसाध्याः ? ||१३.३९।। धनवि.-अथ परीषहादिकष्टसहनासमर्थानां जनानां प्रकारान्तरेण सुखसाध्यं धर्मोपदेशमुपदर्शयन्नाह -
'महातप' इति, यदि-चेत्, सत्त्वसाध्यं-सत्त्वेन-शारीरमानस-पराक्रमेण, साध्यंगम्यं महातपोध्यानपरीषहादि धर्तुं न ईशो-न समर्थो भवसि, अत्र महान्ति च तानि तपांसि च-मासक्षपणादीनि, ध्यानानि-महाप्राणादीनि च, परीषहाश्चद्वाविंशतिसङ्ख्याकाः प्रसिद्धाः, ते आदौ यत्र तत् तथा, चरित्रमित्यर्थः, अत्र'आदि' पदादुपसर्गपरिग्रहः, हे शिवार्थिन् ! - मोक्षार्थिन ! तत्-तदा मनःप्रसाध्यामनोमात्रगम्याः सुखसाध्या इत्यर्थः भावना-अनित्यताद्याः बोधिपर्यन्ता द्वादश, च पुनः, समिती-ईर्याद्याः पञ्च, गुप्ती:-मनोगुप्त्याद्यास्तिस्रः, किं न धत्स ? - न धरसि ।।१३.३९।।
रत्न:-अथ बहुकष्टसाध्यं संयमकार्यं साधयितुमसमर्थं यतिं प्रति सुखसाध्ये कार्ये प्रवर्तयन्नाह -
१. देवलोकसमानः पर्यायो महर्षीणाम् । रतानां अरतानां च महानरकसदृशः ||1||