________________
यतिशिक्षोपदेशद्वारम्
२६१
जलकण इव वर्त्तते, च पुनर्, यत् परत्र - परभवे - मुक्तिगं-स्वर्गा-ऽपवर्गगं शंसुखम्, अब्धिरिव-समुद्र इव वर्त्तते तयोः प्रमादजसुख-स्वर्गापवर्गसुखयोर्मिथःपरस्परं सप्रतिपक्षता, यत्र प्रमादजं सुखं न तत्र स्वर्गापवर्गगं सुखं, यत्र स्वर्गापवर्गगं सुखं, न तत्र च प्रमादजं सुखमितिरूपा विरोधिता स्थितेति, तत्तस्मात् कारणात्, विशेषदृष्ट्या - विवेकदृष्ट्या अन्यतरत्-प्रमादजं सुखं स्वर्गापवर्गगं वा सुखं गृहाण-स्वीकुर्वित्यर्थः ।।१३.३३ ।।
रत्न.—अथ दुःखयोर्हेयत्वेन जहीहीत्युक्तं, ततो वैपरीत्यदर्शनेन सुखयोरुपादेयतां प्रतिपादयन्नाह
शमत्र यबिन्दुव..इति व्याख्या - हे मुने ! अत्र जिनप्रवचनसंयमे यत् प्रमादजं शर्म-सुखं, तत् बिन्दुरिव वर्त्तते, तथा संयमपालनतः प्रमादपरित्यागतश्च परत्र-परभवे यच्छर्म सुखं तदब्धिरिव वर्त्तते, शर्म किंलक्षणं ? - द्यु- मुक्तिगं-स्वर्गशिवसम्बन्धि, एतेन चारित्रस्य स्वर्ग-मुक्तिलक्षणे द्वे फले एवमुक्ते, अप्राप्तक्षपकश्रेणिचारित्रं स्वर्गफलं प्राप्तक्षपक श्रेणिचारित्रं मुक्तिफलमित्यर्थः, तयोः शर्मणोर्मिथः सप्रतिपक्षता स्थिता, तद्धेतोर्विशेषदृष्ट्या अन्यतरद् गृहाणेति व्याख्या पूर्ववत् ।।१३.३३ ।।
[३६९] नियन्त्रणा या चरणेऽत्र तिर्यक्स्त्रीगर्भ-कुम्भीनरकेषु या च । तयोर्मिथः सप्रतिपक्षभावाद्
विशेषदृष्ट्याऽन्यतरां गृहाण ।।१३.३४ ।।
धनवि . - अथोक्तार्थमेव प्रकारान्तरेणोपदिशति - अथवा अथवेति स्पष्टं तदेव दर्शयति
'नियन्त्रणा' इति, अत्र - इह भवे, चरणे चारित्रे, या नियन्त्रणा - गाढव्रतबन्धनेनावस्थानरूपा वर्त्तते च पुनर्या परभवे तिर्यञ्चो- गो-महिष्यादयः, स्त्रीगर्भश्च-स्त्रीजठरान्तस्तदङ्गजतया वसनं कुम्भीनरकाश्च-कुम्भीपाकोपलक्षिता
·