SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ श्रीअध्यात्मकल्पद्रुमे धनवि.—नन्वनन्तरं 'सुतपो-व्रता-ऽऽद्यैर्देहपीडनं विधेयम्' इत्युक्तम्, तच्चातीव दुस्सहमनिष्टं चेति कस्तत्र प्रवर्त्तत ? इत्याशङ्कायामुपदिशति २६० 'यदत्र कष्टम्' इति, अत्र - इह भवे, चरणस्य चारित्रस्य पालने - आचरणे, यत् कष्टं-पीडोद्भवः, पुनः परत्र - परभवे तिर्यग्- नरकेषु-तिर्यग्-नरकभवेषु यत् कष्टं भवति, तयोः-चारित्र - व्रतपालनकष्ट-तिर्यग्-नरकभवभाविकष्टयोर्मिथः- परस्परं सप्रतिपक्षता-यत्र जीवे ऐहिकचारित्रपालनकष्टसहनं, तत्र पारभविककष्टसहनं न भवति, यत्र जीवे पारभविककष्टसहनं, तत्रैहिकचारित्रपालनकष्टं न भवतीतिरूपा विरोधिता स्थिता; तत्-तस्मात् कारणाद् विशेषदृष्ट्या गौरव -लाघवपर्यालोचनरूपया विचार्य, अन्यतरत्-तयोरन्यतरदैहिकं पारभविकं वा कष्टं जहीहि त्यजेत्यर्थः ।।१३.३२ ।। रत्न. - एतदेव प्रकारान्तरेणाचष्टे यदत्र कष्टम्..इति. व्याख्या - हे मुने ! अत्र जिनप्रवचने चरणस्य चारित्रस्य पालने, यत् कष्टं वर्त्तते च पुनर्, यत् परभवे - तिर्यग् - नरकेषु कष्टं वर्त्तते, तयोर्मिथः-परस्परं सप्रतिपक्षता स्थिताऽस्ति, यदि प्रथमं कष्टं तदा परं कष्टं न, यदि परं कष्टं, तदा प्रथमं कष्टं नेति सप्रतिपक्षतेत्यर्थः, तत्-तस्मात् कारणाद् विशेषदृष्ट्या विशेषदर्शनेन तयोर्मध्ये एकम् - अन्यरत् प्रति जहीहित्यजेत्यर्थः ।।१३.३२ ।। , — - [३६८] शमत्र यद्-बिन्दुरिव प्रमादजं, परत्र यच्चाब्धिरिव द्यु-मुक्तिगम् । यतोर्मिथः सप्रतिपक्षता स्थिता, विशषदृष्ट्याऽन्तरद् गृहाण तत् ।।१३.३३ ।। धनवि.—अथ परीषहासहने ऐहिकसुखस्य, परीषहसहने च पारलौकिकसुखस्य च परस्परं विशेषमुपदर्शयन्नुपदिशति - 'शमत्र' इति, अत्र-इह भवे यत् प्रमादजं-विषयादिजनितं, श-सुखं बिन्दुरिव
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy