SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ श्रीअध्यात्मकल्पद्रु नरकावासास्ते तथा तेषु तिर्यक्-स्त्रीगर्भ-कुम्भीनरकेषु नियन्त्रणा वर्त्तते तयोर्नियन्त्रणयोर्मिथः-परस्परं सप्रतिपक्षभावात्-प्रतिपक्षतासाहित्याद् विरोधादित्यर्थः विशेषदृष्ट्या-विवेकदृष्ट्या, अन्यतरां-चरणनियन्त्रणां तिर्यगादिनियन्त्रणां वा गृहाणेति ।।२१५ । । ३४ ।। रत्न. - सूत्रे अथवेतिकथनेन एतदेव भङ्ग्यन्तरेणाह नियन्त्रणा य..इति. व्याख्या - हे मुने ! अत्र जिनप्रवचनस्य चरणे-चारित्रे चारित्रस्य पालने या नियन्त्रणा गुरुपारतन्त्र्यादिभवा वर्त्तते, च पुनस्,- तिर्यञ्चश्च स्त्रीगर्भश्च तथाऽतीव संकटमुखानि मृन्मयभाजनानि कुम्भ्य उच्यन्ते इति कुम्भ्याकारा नरकाः कुम्भीनरकाः ते च तेषु तिर्यक्- स्त्रीगर्भ - कुम्भीनरकेषु या नियन्त्रणा वर्त्तते तयोर्नियन्त्रणयोर्मिथः सप्रतिपक्षभावाद् विशेषदृष्ट्या, अनन्तरांतयोर्मध्ये त्वमेकां गृहाणेति सुगमं तिर्यग्ग्रहणेन सूक्ष्मबादरनिगोदयोरपि नियन्त्रणा गृहीता ।।१३.३४।। २६२ [ ३७०] सह तपो-यम-संयमयन्त्रणां स्ववशतासहने हि गुणो महान् । परवशस्त्वतिभूरि सहिष्यसे, न च गुणं बहुमाप्स्यसि कञ्चन ।।१३.३५।। धनवि . - माध्यस्थ्येन परीषहसहनमुपदिश्य, विशेषत उपदिशति 'सह तपो-यम' इति, तपांसि च - बाह्याभ्यन्तरभेदभिन्नानि तपःकर्माणि, यमाश्च-व्रतानि, संयमाश्च - सप्तदशभेदाः, तैः, यन्त्रणां - बन्धनमिति सह-क्षमस्वेति, हि यतः कारणात स्ववशतासहने - स्वायत्ततया सहने महान् - मोक्षप्राप्तिलक्षणो गुण-उपकारो भवतीत्यन्वयः महान् गुण इति स्थाने 'शिवं गुण' इति पाठे शिवं-मोक्षः, शेषं पूर्ववत्, तु पुनः, परवशः-परायत्तः सन्, एकेन्द्रियादिष्वकामनिर्जरया, अतिभूरि-अतिशयेन प्रचुरं सहिष्यसे च पुनः कञ्चन - कमपि बहुं- मनश्चिन्तितं 1 १. चरणे - चारित्रे या नि० मु० । -
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy