________________
१४
श्रीअध्यात्मकल्पद्रुमे मुक्तिशर्म च वशीभवति द्राग,
तं बुधा ! भजत शान्तरसेन्द्रम् ।।पीठिका-२।। धनवि.-नन्वन्तरं पीठिकायामैहिकामुष्मिकानन्तानन्दसन्दोहसाधनता शान्तरसस्योक्ता, सा च कथं भवति ? - इत्याकाङ्क्षायामाह -
सर्वमङ्गल-सर्वाणि-समस्तानि च तानि मङ्गलानि च-कल्याणानि, तेषां निधौ-निधाने, यस्मिन् शान्तरसेन्द्रे इति, शान्तरसस्य विशेषणम् । हृदि-मनसि सङ्गते-व्याप्ते सति निरुपमं सुखमेति-आगच्छति, च पुनः-मुक्तिशर्म-मोक्षसुखम् द्राग्-शीघ्रम् वशीभवति-स्वायत्तं भवतीत्यर्थः, भो बुधाः ! तं यच्छब्देनाक्षिप्तं शान्तरसेन्द्रं भजत-सेवध्वम्।
अत्र पण्डितानामेवोपदेशयोग्यतेति बुधा इति संबोधनपदं साभिप्रायम्, यदाहुलॊकतत्त्वनिर्णये श्रीहरिभद्रसूरयः- -
[२४] "किं वा करोत्यनार्याणामुपदेष्टा सुवागपि ? |
तक्षा तीक्ष्णकुठारोऽपि, दुर्दारुणि विहन्यते ।[ ]||" अत्र निधिस्वरूपं (त्रि.श.पु.चरितान्तर्गतम् १/४/५७०) [२५] "नैसर्पः पाण्डुकश्चापि, पिङ्गलः सर्वरत्नकः ।
महापद्मः काल-महाकालौ माणव-शङ्खकौ ।।५७० ।। [२६] तेऽष्टचक्रप्रतिष्ठाना, उत्सेधे चाष्टयोजनाः ।
नवयोजनविस्तीर्णा, दैर्घ्य द्वादशयोजनाः ।।५७१।। [२७] वैडूर्यमणिकपाटस्थगितवदनाः समाः ।
काञ्चनाः रत्नसम्पूर्णाश्चक्र-चन्द्रार्क-लाञ्छनाः ।।५७२।। [२८] तेषामेवाभिधानस्तु, तदधिष्ठायकाः सुराः ।
पल्योपमायुषो नागकुमारा भूमिवासिनः ।।५७३ ।।