SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ शान्तरसमाहात्म्यम् रत्न.-अथ निर्विघ्नपरिसमाप्तिकामो ग्रन्थादौ मङ्गलसूचकमादिपद्यमाह 'जयश्रीरान्तरीणाम्' इति, व्याख्या-मया श्रीमुनिसुन्दरसूरिणा, तं श्रीवीरजिनं नत्वा नवमः शान्तो रसो विभाव्यते, मनसि चिन्तितो वागद्वारा प्रकटीक्रियत इत्यर्थः । तं कम् ? - येन श्रीवीरजिनेन, प्रशान्तितः शान्तरसतः, आन्तरा:मनोगता अरय-क्रोध-मान-माया-लोभ-राग-द्वेषाख्याः षट्, तेषां जयश्री:-जयलक्ष्मीः लेभे-प्राप्ता इत्यन्वयदिग् । तथा शास्त्रादौ त्रिविधानां देवतानां स्तुतिः कर्त्तव्या सम्भवति-समुचितायाः १, इष्टायाः २, समुचितेष्टायाः ३ । तत्र १. समुचितायाः स्तुतिः-नीतिशास्त्रारम्भे राजादेः, कामशास्त्रारम्भे स्मरादेः, २. इष्टायाः स्तुतिः 'रघुकाव्ये उमेशयोः, ३. समुचितेष्टायाः स्तुतिः-योगशास्त्रारम्भे श्रीवीरजिनस्येतितेनात्रापि योगशास्त्रत्वात् समुचितेष्टाया देवतायाः श्रीवीरजिनस्य स्तुतिं चक्रे श्रीमुनिसुन्दरसूरिः, तेन तं श्रीवीरजिनं नत्वेति कथनेन मङ्गलं चक्रे । ननु नमस्कारस्य विघ्नध्वंसे कथं सामर्थ्यम् ?, उच्यते-नमस्कारेण शुभाऽदृष्टमुपजायते, तेन च विघ्नध्वंस इति । यत्रापि चे नमस्कारं विनैव निर्विघ्नशास्त्रसमाप्तिर्दृश्यते, तत्रापि च मानसिकनमस्कारः कल्प्य एव, अत्रार्थे बहु वक्तव्यं परं विस्तरभयादन्यत्र शास्त्रेषूपलभ्यमानत्वाच्च न प्रतन्यते इति । रसः शान्तो विभाव्यते इत्यनेन वाच्य-वाचकभावसंबन्धः सूचितः । शान्तरसो वाच्यो, ग्रन्थोऽयं वाचकः । उपायोपेयभावो वाऽत्र संबन्धः-वचनरूपापन्नमिदं शास्त्रमुपायः तत्परिज्ञानं चोपेयमिति | अभिधेयं चात्र शास्त्रे अध्यात्ममार्गः । प्रयोजनं तु-अन्तरं शिष्याणां सर्वरसेभ्यः शान्तरसस्य सर्वोत्कृष्टतापरिज्ञानम्, परम्परं तु निःश्रेयसाधिगमः। गुरोस्त्वनन्तरं प्रयोजनं शिष्यानुग्रहः, परम्परं तु निःश्रेयसाधिगम एवेत्यलं विस्तरेण ।।१।। शान्तरसमाहात्म्यम् [२३] सर्वमङ्गलनिधौ हृदि यस्मिन्, सङ्गते निरुपमं सुखमेति । १. रघुवंशका० मु.-उमा पार्वती तथा ईशः शङ्करः-तयोर्द्वन्द्वः-उमेशौ, तयोः-इति विग्रहः । २. 'च' नास्ति मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy