________________
श्रीअध्यात्मकल्पद्रु
१२
इति मङ्गल-विषय-प्रयोजन-संबन्धाधिकारिणो दर्शिताः ।
पुनरुक्तिरपि न दोष :
ननु पीठिकायां दर्शिता अपि मङ्गल - विषय - प्रयोजन-संबन्धाधिकारिणः पुनरपि प्रथमश्लोके कथं दर्शिताः ?, पौनरुक्त्यदोषोत्पत्तेरिति चेत् ? न, एतस्य प्रकरणस्योपदेशमयत्वेन पौनरुक्त्यस्यादोषत्वाद्, यत उक्तम्
-
[१९] "सज्झाय-झाण-तवव - ओसहेसु उवएस - थुइ-पयाणेसु । संतगुणकित्तणे अन हुंति पुणरुत्तदोसा उ" ।।[ अस्यैवार्थस्य संवादमाहुर्वाचकपादाः प्रशमरतिप्रकरणे
JI
[२०] "यद्वद्विषघातार्थं मन्त्रपदे न पुनरुक्तदोषोऽस्ति । तद्वद्रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् ।।[१३]।। [२१] "यद्वदुपयुक्तपूर्वमपि भैषजं सेव्यतेऽऽर्तिनाशाय । तद्वद्ागार्त्तिहरं बहुशोऽप्यनुयोज्यमर्थपदम्" ।। [१४] ।। [२२] वृत्त्यर्थं कर्म यथा तदेव लोकः पुनः पुनः कुरुते । तद्वद्विरागवार्त्ताहेतुरपि पुनः पुनर्योज्यः " ।। [१५]।। इति ।
किञ्च-आन्तरारीणां जयश्रीरित्यनेनापायापगमातिशयः, श्रीवीरजिनमित्यत्र श्रीपदेन पूजातिशयः, जिनपदेन च ज्ञानातिशयः, 'जिनः सामान्यकेवली' इति [ ] वचनात् । वाणीगुणस्य च चतुस्त्रिंशदतिशयलक्षणश्रीपदान्तःपातित्वात् श्रीपदेनैव च वचनातिशयोऽपि सूचित इति चत्वारोऽपि मूलातिशया दर्शिताः, अतिशययुक्तो हि नमस्कृतः स्वेष्टसिद्धये भवति इति । किञ्च - जयश्रीरित्यनेन ग्रन्थकारो ग्रन्थस्य जयश्र्यङ्कितत्वमादौ दर्शयन् निजाभिधानं सूचयति, यत आराधितसुप्रसन्न-सरस्वतीवदनप्राप्तजयश्रीपदेनाङ्किताः सर्वे ग्रन्थाः श्रीमुनिसुन्दरसूरिभिः कृता इत्यैतिह्यम् । किञ्च - अत्रोपशमाज्जय श्रीप्राप्तिर्हि विरोधालङ्कारे बीजम्, नीतिशास्त्रापेक्षया जयश्रियाः क्रोधादिसाध्यत्वाद्, धर्मशास्त्रापेक्षया विरोधपरिहारस्तु स्पष्ट एवेति ।