________________
मङ्गलाचरणम्
[१६] जयश्रीरान्तरारीणां, लेभे येन प्रशान्तितः ।
तं श्रीवीरजिनं नत्वा,
सः शान्तो विभाव्यते ।। पीठिका - १ ।।
धनवि. - ननु शास्त्रादौ प्रेक्षावतां प्रवृत्तिहेतवो मङ्गला-ऽ -ऽभिधेय-प्रयोजनसंबन्धाधिकारिणोऽवश्यं वक्तव्याः, इह च ते के ? कथं वा उक्ता ? इत्याकाङ्क्षायां पूर्वं पीठिकायां गद्यबन्धेन दर्शितानपि विशेषतः शिष्यशिक्षार्थं ग्रन्थकारो ग्रन्थादौ पद्यबन्धेन तान् दर्शयन्नाह
जयश्रीः इति, जयः परेषामसहमानानामभिभवः तस्य तद्रूपा वा श्री:सम्पद् जयश्रीः, आन्तरारीणां काम-क्रोध- मान-मद-हर्ष- लोभ -लक्षणवैरिणाम्, येन भगवता, प्रशान्तितः- प्रकृष्टोपशमात्, लेभे प्राप्ता, श्रिया - अष्टमहाप्रातिहार्यरूपया चतुस्त्रिंशदतिशयरूपया वोपलक्षितः, विशेषेण ईरयति-क्षपणाय प्रेरयत्यष्ट कर्माणिइति वीरः, यदुक्तम्
[१७] "विदारयति यत् कर्म, तपसा च विराजते ।
तपोवीर्येण युक्तश्च, तस्माद् वीर इति स्मृतः" ।।[ ]।। इति, स चासौ जिनश्च-तीर्थकरः, तं नत्वा शान्तो रसः पूर्वव्यावर्णितस्वरूपः, विभाव्यते-उपदेशादिना परिशीलनालक्षणविभावनविषयीक्रियते ।
—
अत्र श्रीवीरजिननमस्कारो जयश्रीरितिपदं वा मङ्गलम्,
[१८] "शास्त्रादौ श्रीश्च लक्ष्मीश्च, कल्याणं विजयोऽथ च । अस्ति-स्वस्ति-नमस्कारा, एते मङ्गलवाचकाः । । [ ]।।" इतिवचनात् शान्तरसश्च विषयः, आन्तरारिजयश्रीप्राप्तिश्च प्रयोजनम्, शान्तरसशास्त्रयोर्विभाव्य-विभावनभावः संबन्धः, अर्थात् आन्तरारिजयश्रीस्पृहालुश्चाधिकारी,