SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ૨૫૬ श्रीअध्यात्मकल्पद्रुमे धनवि.-अथ मूर्छयाऽधिकधर्मोपकरणरक्षणे दोषं दर्शयन्नुपदिशति - 'संयमोपकरण' इति, हे आत्मन् ! संयमोपकरणच्छलात्-चारित्रोपकरणमिषाद्, यद्-यस्मात् पुस्तकादिभिः, आदिशब्दात् स्थपनिकादिभिः, परान्-भारवाहकादीन् भारयन्-भारवहनविषयीकुर्वन्नसि, तत्-तस्मात् कारणात्, त्वमपि तैः परभवे, गौश्च-बलीवर्दः, खरश्च-रासभः, उष्ट्रश्च-करभो, महिषश्च-कासरः, ते आदौ येषां ते तथा, तेषां रूपं बिभर्तीति गो-खरोष्ट्र-महिषादिरूपभृद्, आदिपदाद् गज-तुरगादिपरिग्रहः, चिरं-चिरकालं भारयिष्यसे-भारवहनविषयीकरिष्यसे ।।१३.२८ ।। रत्न.-अथ दुष्प्रयुक्तत्वमेव वासःप्रभृतीनां ज्ञापयन्नाह - संयमोपकरणच्छलात्..इति. व्याख्या-हे मुने ! त्वं परान् भारवाहक-गोत्रमेलकाऽश्वतरादीन् पुस्तकादिभिः हेतुभिर्भारयन्नसि-भारितान् कुर्वन्नसि, कस्मात् ? - संयमस्योपकरणानि संयमोपकरणानि तेषां छलं-मिषं तस्माद्, इमानि संयमस्योपकरणानि सन्तीति वाहितानि शुद्ध्यन्तीति दम्भतः, तत्-ततो हेतोस्त्वमपि भारयिष्यसे, त्वं किंलक्षणः ? - गो-खरोष्ट्र- महिषादीनां पशूनां रूपं बिभर्षि(ति) इति गोखरोष्ट्रमहिषादिरूपभृत्, तेषामवतारं प्राप्तस्सन्नित्यर्थः, कथं ? - चिरंचिरकालं, बहूनवतारान् यावदित्यर्थः, मनुष्यत्वापन्नैस्तैरेवेति कर्तृपदं गम्यम् ||१३.२८ ।। [३६४] वस्त्र-पात्र-तनु-पुस्तकादिनः शोभया न खलु संयमस्य सा । आदिमा च ददते भवं परा, मुक्तिमाश्रय तदिच्छयैकिकाम् ||१३.२९ ।। धनवि.-नन्वधिकं संयमोपकरणमधिकशोभायै स्यात्-इत्याशङ्कायामुपदिशति 'वस्त्र-पात्र' इति, वस्त्र-पात्र-तनु-पुस्तकादिनः-चीवर-भाजन-शरीर-पुस्तकादिवस्तुनः, शोभया-विभूषया, खलु निश्चितं संयमस्य सा शोभा न भवति-न १. ठवणी, स्थापनाचार्य ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy