________________
यतिशिक्षोपदेशद्वारम्
२५७
स्यादिति;, आदिमा-प्रथमा वस्त्र - पात्र - तनु - पुस्तकादिशोभा भवं संसारं ददतेददाति, अत्र 'ददि दाने' [है.धा. ७२७] इत्यस्य ददते इति साधुः । च पुनः परा-द्वितीया संयमस्य शोभा, मुक्तिं-निर्वृतिं ददते; तत्-तस्माद्-इच्छया-यथेच्छं, एकिकां-एकैवैकिका, तां वस्त्रादिशोभां संयमशोभां वा एकामाश्रय-भजेति ।
अत्रोत्तरार्धे 'तां तदत्र परिहाय, संयमे किं यते ! न यतसे ? शिवार्थ्यपि" पाठान्तरं, पूर्वोक्तव्यक्त्यर्थमाह- वस्त्र - पात्र-तनु- पुस्तकादिनः शोभा, - तां तदत्र इति हे यते ! हे मुने ! तत्-तस्मात् कारणाद् - अत्र - इह भवे, तां वस्त्रादिशोभां, [परि] विहाय-त्यक्त्वा, शिवार्थ्यपि - मोक्षर्थ्यपि सन्, संयमे चारित्रमार्गे, किं न यतसे ? किं-न यत्नं कुरुषे, अत्र अपि शब्दो विरोधाभासद्योतकः, स च विरोधो - यो मोक्षार्थी भवति, स संयमे यतते, त्वं मोक्षार्थ्यपि सन् संयमे न यतसे इतीति 'चोत्तरार्द्धपाठ इति स्पष्टम् ।।१३.२९ ।।
रत्न. - अथ वस्त्रादिभिः संयमस्य शोभा न भवतीत्याह
-
-
"
वस्त्र-पात्र-तनु-पुस्तकादिन इति व्याख्या - हे मुने ! वस्त्र-पात्र-तनु-पुस्तकादिनः सम्बन्धिन्या शोभया कृत्वा, खलु निश्चितं सा शोभा संयमस्य चारित्रस्य नास्ति, किंतु अशोभैव वर्त्तते, अत्युद्भटवेषधरणमशोभैवेत्यर्थः, अमुमेवार्थं दृढयतिवेति विशेषे, आदिमा वस्त्र - पात्र-तनु- पुस्तकादिसम्बन्धिनी शोभा भवं संसारं ददते, परा-अन्या संयमस्य शोभा अष्टप्रवचनमातृपालनादिका, मुक्तिं - मोक्षं ददते, तत् कारणात्, इच्छया एकिकां-द्वयोर्मध्ये एकां, मुने ! त्वं भज-श्रय, यदि भवमिच्छसि तदा प्रथमां भज, यदि च मुक्तिमिच्छसि तदाऽन्यां भजेत्यर्थः,
-
I
तां तदत्र... शिवार्थ्यपि इति चोत्तरार्द्धपाठः, पूर्वार्द्धं तदेव तेन व्याख्यापि तथैव, तत् कारणात् तां वस्त्र - पात्र - तनु - पुस्तकादिनः शोभां परिहाय - त्यक्त्वा, यते ! - संयत ! अत्र संयमेऽर्हत्प्ररूपिते किं न यतसे ?, किंलक्षणः ? शिवं-मोक्षमर्थयसे इत्येवंशीलः शिवार्थी, कथम् ? - अपि, इत्युत्तरार्द्धपाठान्तरव्याख्या ।।१३.२९ ।।
१. 'वो०' मु० । ·