SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ यतिशिक्षोपदेशद्वारम् २५५ पुस्तक-पात्रकप्रभृतयोऽर्थाः-पदार्था, यतीनां साधूनां संयमस्य चारित्रस्य रक्षार्थं जिनैः-भगवद्भिरर्हद्भिर् गदिताः प्ररूपिताः, तत्र वासांसि च - वस्त्राणि, पुस्तकं च-लिखितपत्रसञ्चयः, पात्रकाणि भाजनानि तानि प्रभृतयः - प्रमुखा येषां ते तथा, अत्र प्रभृतिपदेन 'स्थपनिका - स्थापनाचार्यादिपरिग्रहः, त एव धर्मोपकरणलक्षणाः पदार्थाः, कुधियां-कुबुद्धीनां मूर्च्छन्‌मोहवशात् संसारपाताय-भवपतनाय भवेयुरित्यन्वयः, अत्र मूर्च्छन्-समुच्छ्रायं गच्छन् 'मूर्च्छा मोह- समुच्छ्राययोः'[ ] इति वचनाद् वृद्धिं गच्छन् यो मोहो-मोहनीयं कर्म, तस्य वशः परतन्त्रता, तस्मादित्यर्थः, "मूर्च्छामोहवशाद्" इति पाठे तु मूर्च्छा-धर्मोपकरणेषु गृद्धिः, तज्जनितो मोहोमौढ्यं तद्द्वशादित्यर्थः, अत एव धिगस्तु यद्- यस्माद् अधियां-निर्बुद्धीनां दुष्प्रयुक्तम्अकुशलतया व्यापारितं, स्वं स्वकीयं शस्त्रं-प्रहरणं स्वस्य- आत्मनो वधाय-विनाशाय भवेत्-स्यादित्यर्थः ।।१३.२७ ।। रत्न. - पुनरेतदेव विवृणोति रक्षार्थ खलु..इति व्याख्या- येऽर्थाः, खलु निश्चितं, जिनैः - अर्हद्भिर्यतीनां संयमस्य चारित्रस्य, रक्षार्थं गदिता - उक्ताः, अर्थाः के ? के ? इत्याह-वासोवस्त्रं, पुस्तकम्-आगमवर्णलिपिरूपं, पात्रं - पतद्ग्रहादि, प्रभृतिशब्दात् कम्बलादीनां ग्रहणं, किंलक्षणाः ? धर्मस्य-चारित्रधर्मस्योपकृतिः-उपकरणमेवात्मा-स्वरूपं येषां ते, धिग् यथा स्यात् तथा त एवार्था वासः - पुस्तक - प्रभृतयः कुधियांकुबुद्धीनां संसारपाताय भवेयुः कस्मात् ? - मूर्च्छन् - वृद्धिं गच्छन्, यो मोहस्तस्य वशस्तस्माद्, एतदेव दृष्टान्तेन निर्दिशति-यदिति दृष्टान्तोपन्यासे, अधियां बुद्धिवर्जितानां स्वं स्वकीयं शस्त्रं दुष्प्रयुक्तं सत् स्वस्यैव - आत्मन एव वधाय भवेत्, अयं दृष्टान्तोऽत्रापि ज्ञेय इति ।। १३.२७ । । १. ठवणी. - , - [३६३] संयमोपकरणच्छलात् परान्, भारयन् यदसि पुस्तकादिभिः । गो-खरोष्ट्र-महिषादिरूपभृत् तच्चिरं त्वमपि भारयिष्यसे ।।१३.२८ ।।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy