________________
२५४
श्रीअध्यात्मकल्पद्रुमे रसायनवरैः-गन्धक-पारद-सुवर्णभस्मादिभिर्, अपि हेतुभूतैः स्वपुराकृतकर्मदोषेण, सर्पदामयैः-प्रसरद्रोगैर्गदहृतेः-रोगहरणात् सुखकृत्-सुखसाधनं, नु इति वितर्के किं भवेत् ? - स्यादिति; भावार्थस्तु-यथा येषां रोगिणां रसायनैरपि रोगवृद्धिर्भवति, तेषां सुखकृत् किमपि न भवति तथा येषां व्रतिनां धर्मोपकरणैः पुस्तकादिभिरपि मूर्छया पापवृद्धिर्भवति, तेषां सुखकृत् किमपि न भवतीति ।१३.२६ ।।
रत्न.-अथाधिकधर्मोपकरणरक्षणनिषेधविषये नानायुक्त्योपदिशति -
येऽह-कषाय.इति. व्याख्या-ये मुनयः पुस्तकादिभिः, अंहः-पापं, कषायाःक्रोधादयः, कलिः-कलहः, तैर्हेतुभिः कर्मणां-ज्ञानावरणीयादीनामष्टानां, आयुषो बन्धस्य कादाचित्कत्वात् सप्तानां वा, निबन्धो-बन्धनं गाढनिकाचनादिः, तस्य भाजनं-पात्रं स्युः-भवेयुः, किंलक्षणैः ? - ईहितं-वाञ्छितं धर्मस्य-चारित्रधर्मस्य साधनं येभ्यस्तैः, कथमपि तेषां मुनीनां सुखकृत्, नु किं भवेत् ?, सुखकृत् किञ्चनापि न स्यादित्यर्थः, तेषां किंलक्षणानाम ? - आत:-पीडितः आत्मा येषां ते आर्त्तात्मानस्तेषां नित्यं दुःखितानामित्यर्थः, अत्र दृष्टान्तमाह-यथा सर्पन्तोव्याप्तिमन्तः आमया-रोगा येभ्यस्तै रसायनवरैरपि कृत्वा आर्त्तात्मनां रोगिणां गदहृतेः-रोगापनयनात् सुखकृन्नु किं स्याद् ?, अथ भावार्थो लिख्यते-यथा सर्पदामयै रसायनवरैरप्यार्त्तात्मनां रोगिणां पीडितचेतसां सुखकृन्नु किं भवेत्?, शास्त्रे अन्यजानां रोगाणां प्रतीकारो वर्त्तते, परमविधिकृतरसायनोत्थरोगाणां प्रतीकारो नास्तीत्युपनयो भाव्यः ।।१३.२६ ।। [३६२] रक्षार्थं खलु संयमस्य गदिता, येऽर्था यतीनां जिनैर्
वास-पुस्तक-पात्रकप्रभृतयो धर्मोपकृत्यात्मकाः | मूर्च्छन् मोहवशात् त एव कुधियां संसारपाताय धिक्,
स्वं स्वस्यैव वधाय शस्त्रमधियां यद् दुष्प्रयुक्तं भवेत् ।।१३.२७।। धनवि.-अथ धर्मोपकरणेषु मूर्छाकरणे दोषमुपदर्शयन्नुपदिशति -
'रक्षार्थम्' इति, खलु. इति-निश्चये ये धर्मोकृत्यात्मका-धर्मोपकरणरूपा वास:१. 'राखवानो निषेध' इत्यर्थः । २. अन्नजा० मु० । ३. स्वबुद्ध्या गम्यः ।