________________
यतिशिक्षोपदेशद्वारम्
२५३ भारो जातोऽस्यां सा, तरी-यानपात्रविशेषः, अम्बुधौ-सागरे, अङ्गिन-देहिनं, द्रुतंशीघ्रं निमज्जयति-ब्रुडयतीत्यर्थः; भावार्थस्तु-यथा सुवर्णेनातिभारिता तरी, तत्रारूढं नरं निमज्जयति तथा धर्मोपकरणेनातिभारितो यतिः स्वं परञ्च निमज्जयतीति ||१३.२५।।
रत्न.-एतदेव दृष्टान्तान्तरेण व्याख्याति-परिग्रहात्. इति. व्याख्या-हे मूढमुने! त्वं परिग्रहात्-परिग्रहं प्राप्येत्यर्थः, किमु ? - किं तुष्यसि-हर्षं प्राप्नोषि, अपि तु मा तुष्य, किंलक्षणात् ? - केवलमभिधाननं-अभिधानमात्रं, स्वीकृतं धर्मसाधनंधर्मस्य-चारित्रधर्मस्य साधनं-कारणमित्यभिधानमात्रं यस्य स तस्मात्, एतदेव दृष्टान्तदानेन दृढयति-हे मूढ ! त्वं न वेत्सि ?, अपि तु वेत्स्येव, हेम्नासुवर्णेनाप्यतिभारिता तरी बेडा अङ्गिनं-प्राणिनमम्बुधौ-समुद्रे द्रुतं निमज्जयतिबोलयति, धर्मोपकरणाभिधानान्तराधिकपरिग्रहस्य सुवर्णातिभारिततर्युपमानमिति, तेन त्वामपि धर्मसाधनाभिधानोऽप्यतिपरिग्रहो निमज्जयिष्यत्वेवेति धर्मोपकरणमप्यधिकं मा कुर्वित्यर्थः ।।१३.२५।। [३६१] येऽहाकषायकलिकर्मनिबन्धभाजनं,
स्युः पुस्तकादिभिरपीहितधर्मसाधनैः । तेषां रसायनवरैरपि सर्पदामयै -
रातत्मनां गदहृतेः सुखकृन्नु किं भवेत् ? ||१३.२६ ।। धनवि.-अथ धर्मोपकरणानामपि मूर्छादिदोषेण परिग्रहरूपतां समर्थयन्नुपदिशति
'येऽहः' इति, ये यतयः, ईहितो-वाञ्छितो, धर्मो-ज्ञानादिस्तस्य साधनैःहेतुभिः धर्मोपकरणैः, पुस्तकादिभिर, अहश्च-लिखनाऽऽरम्भादिजन्यं पापं, पुस्तकादिबन्धने कुन्थ्वादिजीवघातजनितं वा पातकं, कषायाश्च-मूर्छात्पन्नाः क्रोध-मान-माया-लोभाः, कलिश्च-कषायप्रभवो वाग्वादः, कर्माणि चकलहप्रभवाण्यशुभकर्माणि, तेषां निबन्धनं निबन्धो-बीजं, मूर्छा, तस्य भाजनंपात्रं स्युः-भवेयुरित्यर्थः, तेषां यतीनां, नु वितर्के सुखकृत् किं भवेत् ?, अपि तु न किञ्चिदिति; अत्र यथा इत्यध्याहारो, यथा आर्त्तात्मनां-रोगपीडितानां