SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २४७ यतिशिक्षोपदेशद्वारम् तान् जना-ऽऽनति-स्तुति-प्रतिग्रहान्, मुदितो-हृष्टः सन् प्रतीच्छसि "इच्छियं पडिच्छियमेयं", इति वचनादौत्सुक्येन गृह्णासि, ततः कारणात् ते-तव लुलायश्चमहिषो, गौश्च-बलीवर्दो-ऽश्वश्च-तुरङ्गमः, उष्ट्रश्च-दीर्घग्रीवः खरश्च-गर्दभः, ते आदौ-प्रथमं येषां ते तथा, आदिपदाद् भारवाहक-गज-मनुजादिपरिग्रहः, तेषां जन्मानि-अवतारास्तैर्विना-अन्तरेण निष्क्रयो-जना-ऽऽनत्यादेर्भाटकं मूल्यं वा न भविता-न भविष्यतीत्यर्थः ।।१३.१९।। रत्न.-अथ सामान्यतः 'कुगतिं याता'इत्युक्तौ अप्रतिबुध्यमानं यतिं प्रति कुगतिव्यक्तिप्रतिपादनेन प्रतिबोधयति-गुणैर्विहीनोऽपि..इति. व्याख्या-हे वेषवञ्चक ! त्वं गुणैः ज्ञानादिजन्यैर्विहीनोऽपि सन्, जनेभ्यो-लोकेभ्यः आनतिः-आनमनं पञ्चाङ्गप्रणामः, स्तुतिः-'गोयम-सोहम-जंबू-पभवो इत्यादिरूपा, प्रतिग्रहः-अन्नपान-वस्त्र-पात्र-पुस्तका-ऽऽदिकः, तान् प्रति यन्मुदितः सन्-हर्षमापन्नस्सन् प्रतीच्छसिगृह्णासि, ततः-तस्मात् कारणात्, तेषां-जना-ऽऽनति-स्तुतिप्रतिग्रहाणां ते-तव निष्क्रयो-मूल्यं धनिकानां मूल्यार्पणमित्यर्थः न भविता-न भविष्यति चारित्रादिगुणैहीनत्वात्, कथं ? - विना, कैः ? - लुलायो-महिषो जलाहरणादिक्रियासमर्थः, गौर-बलीवर्दः कृषिक्रियाकरण-भारोद्वहनेक्षुपीलन-तिला-ऽऽदिपीलन-शकटादिवहनाऽऽरघट्टयन्त्रवहना-ऽऽदिसमर्थः तथा अश्वः-संग्रामादिकर्मसूपयोगी तथा उष्ट्रोभारवहन-बहुक्रोशगमनसमर्थः, तथा खर:-जलानयन-मृत्तिकेष्टकानयन-क्रियाकारी वागडा-ऽऽदिदेशे बहूपयोगी, ते आदौ येषां ते लुलाय-गो-ऽश्वोष्ट्र-खरादयः, आदिशब्देना-ऽजोरभ्रादिग्रहणं, तेषां जन्मानि तैः, तेषां गृहे एतदुपयुक्तकर्मकरणात् तन्निष्क्रयो भावीत्यर्थः ।।१३.१९ ।। [३५५] गुणेषु नोद्यच्छसि चेन्मुने ! ततः, प्रगीयसे यैरपि वन्द्यसेऽय॑से । जुगुप्सितां प्रेत्य गतिं गतोऽपि तैर्, हसिष्यसे चा-ऽभिभविष्यसेऽपि वा ।।१३.२०।। १. कार्य० मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy