________________
२४८
श्रीअध्यात्मकल्पद्रुमे धनवि.-उक्तमेवार्थं प्रकारान्तरेण दर्शयन्नुपदिशति -
हे मुने ! चेद्-यदि, गुणेषु-ज्ञान-दर्शन-चारित्रलक्षणेषु, श्रमणगुणेषु नोद्यच्छसिनोद्यमं कुरुषे, ततो गुणेषुद्यमाभावाद्, यैरपि-यैरेव श्राद्धादिभिस्त्वमिदानी प्रगीयसे गीतादिभिः, वन्द्यसे शिरोनमनप्रभृतिभिः, अय॑से सुवर्ण-पुष्पादिभिर्वस्त्राहारादिभिर्वा, अत्र 'अपि' शब्द एवकारार्थः, तेन, च पुनस्-तैरेव श्राद्धादिभिः, प्रेत्य-भवान्तरे जुगुप्सितां-कुत्सनीयां गतिं-नरक-तिर्यगलक्षणां गतोऽपि-प्राप्त एव हसिष्यसे'त्वमस्मद्विनिर्मितस्तुति-नति-पूजादिभिर्गौरवफलं प्राप्त' इत्यादिवचनैर्हासविषयीकरिष्यसे, वा-अथवा तैरेव-अभिभविष्यसे-पूर्वोक्तवचनैस्ताडन-भारवाहनादिभिर्वा पराभवविषयीकरिष्यसे; अत्र 'अपि' शब्द एवकारार्थो ज्ञेय इति ।।१३.२०।।
रत्न.-अथ विपरीतफलप्रतिपादने गुणोद्यमं कुर्वित्युपदिशति -
गुणेषु. इति. व्याख्या-हे यते ! चेद्-यदि, गुणेषु-ज्ञान-दर्शन-चारित्रसम्बन्धिषु नोद्यच्छसि-नोद्यमं करोषि, ततः-तर्हि यैः श्राद्धलोकैस्त्वं प्रगीयसे गीतादीना, यैरपि वन्द्यसे स्तूयसे 'गोयम-सोहम' इत्यादिना तथा अWसे घुसृणचन्दनविलेपनादिना, तैस्त्वं प्रत्ये-परभवे जुगुप्सितां गतिं-कुरूप-निःस्वताद्युपेतां गतिं गतोऽपि सन्-प्राप्तोऽपि सन्, हसिष्यसे-हासविषयीकारिष्यसे, च पुनस्,तैरभिभविष्यसे, दासत्वाद्यापन्नः सन् कार्यकरणालसः सन् आक्रोश-यष्टि'लेष्टु प्रहारादिनेत्यर्थः, अनया रीत्या त्वं तेषां निष्क्रयमर्पयिष्यसीति भावः ||१३.२०।।
[३५६] दान-मान-नुति-वन्दनापरैर्,
मोदसे निकृतिरञ्जितैर्जनैः । न त्ववैषि सुकृतस्य चेल्लवा,
कोऽपि सोऽपि तव लुट्यते हि तैः ||१३.२१।। धनवि.-पुनस्तत्रैव दोषान्तरमाह - १. यष्टि-लत्ता मु० ।