________________
२४६
श्रीअध्यात्मकल्पद्रुमे धनवि.-अनन्तरं 'स्तवार्चावाञ्छा मुधा न कार्या'इत्युक्तम्' तदेव दृढयन् निष्फलस्तवाऽर्चावाञ्छायां त्रैकालिकं दोषं दर्शयन्नुपदिशति -
'हीनोप्यरे' इति, अरे आत्मन् !, त्वं भाग्यगुणैः-पुराचीर्णदानादिप्रभवसुकृतलक्षणगुणैीना-शून्योऽपि स्तवा-ऽर्चादि-स्तुति-पूजादि वाञ्छन्-अभिलषन् च पुनस्,-तम्, अनाप्नुवन्-अलभमानश्च पुनस्,-तदनवाप्त्या, परेभ्यः-आत्मव्यतिरिक्तेभ्य ईर्ण्यनक्रोधं कुर्वन्, इहापि-इहलोकेऽप्यति-तापम्-अतिशयेन संतापं लभसे-प्राप्नोषि, पुनः परत्र-परभवे कुगतिं-दुर्गतिं याता-गन्तेति ।।१३.१८ ।। ___ रत्न.-एतदेव प्रकारान्तरेणाचष्टे-हीनोऽप्यरे...इति. व्याख्या-अरे इति निन्द्यसंबोधने अरे 'अभाग ! अरे भाग्यरहित ! हे आत्मन् ! त्वं गुणैः-ज्ञानदर्शन-चरणैीनोऽपि रहितोऽपि मुधा स्तवार्चादि स्तोत्रपूजादि वाञ्छन्, च पुनस्,-तत्प्रति अनवाप्नुवन्-अलभमानः, परेभ्यो-गृहस्थेभ्यो गुणवत्साधुभ्यो वा ईर्ण्यन्-ईर्ष्या 'कुर्वाणः सन्, अतितापं-अधिकसंतापमतिकष्टं वा लभसे-प्राप्नोषि, कथम? - इहापि-इहलोकेऽपि, अपेर्डमरुकमणिन्यायेन योजनात् परत्रापिपरलोकेऽपि कुगति-नरकतिर्यग्लक्षणां याता-गन्तेति ।।१३.१८ ।। [३५४] गुणैर्विहीनोऽपि जना-ऽऽनति-स्तुति-,
प्रतिग्रहान् यन्मुदितः प्रतीच्छसि ।
लुलाय-गो-ऽश्वोष्ट्र-खरादिजन्मभिर्
विना ततस्ते भविता न निष्क्रयः ||१३.१९।। धनवि.-अथ गुणविहीनस्य स्तवा-ऽर्चा-प्रतिग्रहेषु क्रियमाणेषु केवलमुत्तरकालेऽहितलक्षणं फलं दर्शयन्नुपदिशति - _ 'गुणैर्' इति, यद्-यस्मात् त्वं गुणैर्विहीनोऽपि-ज्ञानादिसद्गुणरहितोऽपि, जनेभ्य आनतिश्च-प्रणामः, स्तुतिश्च-गुणोत्कीर्तनं, प्रतिग्रहश्च-आहारादिग्रहणं, ते तथा १.धनवि.-टीका ‘भाग्यगुणैः... सुकृतैः इति समस्तं व्याख्याति-रत्नवि-टीका तु 'अभाग' इति आत्मानं संबुध्य, गुणैः ज्ञानादिभिर्दीनः इति व्यस्तं व्याख्याति, अतः 'अभागः' हे अभागिया ! इति भाषामां, मूलत्वेन स्वीकरोति, तेन '...रेऽभाग ! पाठः स्यात्, । २. कुर्वन् मु० ।