________________
२३९
यतिशिक्षोपदेशद्वारम् इत्यनन्तरोक्त-भणनानन्तरम्, असकृद्-वारं वारम्, एतत् सावद्यकर्म करोषि; तत्-तस्मान्नित्यं-प्रतिदिनं सावद्यतः-सावधव्यापारतः, ते-तव नरकमेव-परभवे नरकगमनमहं विभावये-संभावयामि, सावद्यतः कथंभूतात् ? - मृषोक्त्याअलीकवचनेन, जिनवञ्चनेन-'भगवन् ! सर्वं सावा यावज्जीवं न करोमि'इति भणित्वा पुनः पुनस्तत्करणेन भगवद्वञ्चनं, तेन भारिताद्-भारः संजातोऽस्येति भारितस्-तस्मात् तथेति ।।१३.११।। रत्न.-अथ द्रव्ययतेः प्रतिदिनं मृषावादित्वं सूचयन्नाह - .
उच्चारयस्यनुदिनम्.इति. व्याख्या-हे वेषयते ! त्वं लोकरञ्जनार्थमपि अनुदिनं प्रतिक्रमणं कुर्वन, सर्वं सावधं-सपापं 'कर्म न करोमीत्युच्चारयसि, चुरादेश्चर् धातोरयं प्रयोगः, आलापकपाठतः पठसीत्यर्थः, अथो अथार्थेऽव्ययम्, एतत् सावद्यं कर्म सचितारम्भादिकमसकृद्-वारंवारं करोषि, तदेव सावा तत्सावा तस्मात् तत्सावद्यत एव मृषाजल्पनसावद्यत इति, अन्यानि सावद्यानि दूरे आस्तामित्यर्थः, ते-तवाहं नरकं विभावये-संभावयामि, तत्सावद्यतः किंलक्षणात ? - नित्यम्-अहरहर्मूषोक्तिः-मृषा जल्पनं तया च जनवञ्चन-लोकविप्रतारणं, तेन भारितात-पुष्टीकृतान्निचयीकृताद् वेति ।।१३.११।।
[३४७] वेषोपदेशाद्युपधिप्रतारिता,
ददत्यभीष्टानृजवोऽधुना जनाः | भुझे च शेषे च सुखं विचेष्टसे,
भवान्तरे ज्ञास्यसि तत्फलं पुनः ||११.१२।। धनवि.-अथ जिनविप्रतारणफलं दर्शयित्वा जनविप्रतारणफलं दर्शयन्नुपदिशति'वेषोपदेषादि' इति, हे आत्मन् ! वेषोपदेशाद्युपधिप्रतारिताः-वेषश्च-यतिलिङ्गम्, उपदेशश्च-दानादिषु प्रवृत्त्युत्साहजनकं वचः, तौ आदौ-प्रथमं येषां ते तथा, आदिपदाद् बाह्यसमिति-गुप्तिपालन-दर्शनादिपरिग्रहः, ते च ते उपधयश्च१. कर्म सचित्तारम्भादिकं, - मु० । २. 'जनवञ्चन' रत्नवि. टीका पाठान्तरः | - जिनस्तु सर्वज्ञः, केनापि न वञ्च्यते, तथा मृषोक्त्या जनस्तु सुतरां वावञ्च्यते, अतः 'जन'... इति पाठः सुष्ठु भाति ।