SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २४० श्रीअध्यात्मकल्पद्रुमे दम्भास्तैः प्रतारिता-वञ्चिता इत्यर्थः, जना ऋजवः-सरंला, अधुना-सांप्रतं वर्तमानभवे अभीष्टान्-मनोवाञ्छितान् आहारोपध्यादीन् ददति, प्रयच्छन्तीत्यर्थः, च पुनस्त्वं सुखं यथा स्यात् तथा भुझे-खादसि, च पुनः सुखं शेषे-स्वपिषि, सुखं विचेष्टसे-क्रीडसि; तत्फलं पुनः-जनवञ्चनजनितं दुःखानुभवफलं तु नरकादिवेदनालक्षणं भवान्तरे-परभवे ज्ञास्यसि-अनुभविष्यसीति ।।१३.१२ ।। रत्न.-पुनर्वेषमाश्रित्योपदिशति - वेषोपदेशाद्युपधि..इति. व्याख्या-हे वेषधूर्त ! अधुना ऋजवो जनास्तेतवाभीष्टानि-वाञ्छितानि शर्करापान-पयःपान-सुगन्धिशालि-निस्तुषमुद्ग-दालिहैयंगवीन-जीवंतीशाक-प्रक्षिप्तमरिचचूर्ण-प्रलेपभोजन-तत्तद्देशोद्-भवांशुकनिजबालकपुत्रपुत्र्यादीनि वस्तूनि ददति, किंलक्षणाः ? - वेषश्चार्थोद्यतेरेवोपदेशो-धर्मोपदेशः सुस्वरत्वेन वसंतरागाद्यालापपूर्वकमित्यर्थः तावादी येषां ते वेषोपदेशादयः, आदिशब्देन बकवृत्त्येर्यापथगमनप्रवर्त्तनादिग्रहणं, ते एवोपधयःछद्मानि, तैः प्रतारिताः सन्तः, तत एव च पुनस्, त्वं सुखं भुझे शर्करागुडादीनि, च पुनः, शेषे-स्वपिषि बहूपधिमत्तया विस्तीर्णायामपि, नवनीतवन्मृदुसंस्तारके इत्यर्थः, तथा सुखं यथा स्यात् तथा विचेष्टसे-व्यवहरसि, एतत् सुखशब्दप्रयोगेण व्यञ्जितं, पुनस्तेषां सुखं भोजन-शयन-विचेष्टनानां फलं भवान्तरे ज्ञास्यसि, यदा नरके तिस्रोऽपि गाढवेदनाः प्रत्यनुभविष्यसि तदेत्यर्थः, सांप्रतं प्रमादपतितस्य तव किं ब्रूम इति ? ||१३.१२।। [३४८] आजीविकादिविविधार्तिभृशाऽनिशाऽऽrः, कृच्छ्रेण केऽपि महतैव सृजन्ति धर्मान् । तेभ्योऽपि निर्दय ! जिघृक्षसि सर्वमिष्टं, नो संयमे च यतसे भविता कथं ही ? ||१३.१३।। १. शय्यायामित्यर्थः, विपूर्वक स्तृ धातोः क्त प्रत्ययेन 'विस्तीर्णः शब्दः, तस्य विशेष्यार्थकत्वे 'विस्तीर्णा' इति' स्त्रीलिङ्गी शब्दः जातः, हिंदीभाषायामेवं 'बिस्तरा' तथा गुर्जरभाषायां 'पथारी' इति शब्दस्य मूले 'स्तृ' धातुरेवास्ति ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy