________________
२३८
श्रीअध्यात्मकल्पद्रुमे अनेन बाह्यजडत्वं निरस्तं, पुनः कीदृशः ? - धृतानि व्रतानि-अहिंसादीनि पञ्च येन स धृतव्रतः, अत एव गृहिणी-स्त्री पुत्रो-नन्दनः आदिशब्दात् पुत्री-भ्रातृ-भगिन्यादिग्रहणं, गृहिणी च पुत्रश्च गृहिणी-पुत्रौ तावादी येषां ते गृहिणी-पुत्रादयस्ते एव बन्धा इव बन्धा-बन्धनानि तैरुज्झितः-त्यक्तः, अत्र'अपि'शब्दा विशेषार्थद्योतकाः, ततो मोह एव द्विषन्-वैरी, तस्य मोहद्विषतः, काचिदवाच्यस्वरूपा परा-प्रकृष्टा दुष्टता- दुष्टत्वं वर्त्तते, किंभूतस्य ? - त्रिलोकजयिनः-स्वर्ग-मृत्य-पाताललोकजयिनः, वेति विशेष, स नर एव पशुः-तिर्यङ् नररूपेण पशुरित्यर्थः नूनमिति संभावनायां, दुर्गती-नरकादौ गमीगन्ता, कया ? - बद्धमायुर्येनार्थाद् र्दुर्गतरेव स बद्धायुष्कस्तस्य भावो बद्धायुष्कता तया, अत्रार्थे मोहवराकः किं कुर्याद् ?, येनायुर्बद्धं तदन्यथा न भवतीत्यर्थः, स पुमान् वा नरश्चासौ पशुश्च वानरपशुः, यथा वानरपशुः काञ्चन मनुष्यचेष्टां कुर्वन्नपि पशुरेव भवति तथाऽसावपि, शेषं तथैवेत्यपि व्याख्यानं कर्त्तव्यं, क्वचिद् बन्धूज्झित इति वा [प्रथमपादे] पाठः ।।१३.१०।। [३४६] उच्चारयस्यनुदिनं 'न करोमि सर्वं
सावद्यमित्यसकृदेतदथो करोषि । नित्यं मृषोक्ति जिनवञ्चनभारितात् तत्,
सावद्यतो नरकमेव विभावये ते ।।१३.११।। धनवि:-अथानन्तरमुक्तं 'धृतव्रतोऽपी'ति तेन धृतव्रतत्वे तदनाचरणे दोषं दर्शयन्नुपदिशति - _ 'उच्चारयसि' इति, हे आत्मन् ! त्वम्, अनुदिन-प्रतिदिनं प्रतिक्रमणादि क्रियासमये इति-अमुना प्रकारेण, उच्चारयसि-भणसि, अत्र'उत्पूर्वस्य 'चरण असंशये' [है.धा.१७४८] इत्यस्य चौरादिकस्य 'उच्चारयसीति साधुः, इतीति किं ? - हे भगवन् ! अहं सर्वं सावधं-सपापं कर्म न करोमि, अथो
१. दौष्ट्यं - मु० । २. धनवि:-टीकायां नरः समग्रतया पशुत्वेन विवृतः, गौः इति भावार्थे किंतु रत्नवि.टीकायां 'वानरपशुः' विवृतो, वानरपशोः मतुष्पवच्चेष्टा दृष्टा, अतोऽयमर्थोधिकसमुचितो भाति ।