SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ यतिशिक्षोपदेशद्वारम् २३७ सकलपरिग्रहमुक्तत्वात्, च पुनर्भगवतः-अर्हतः समयम-आगमं वेत्सि-जानासि, तथा आगमानां-जिनागमानां पुस्तकानि धरसि-इति पाठान्तरं, हे भिक्षो ! तथापि त्वं शुद्धे-निरतिचारे चरणे-चारित्रे न यतसे-न यत्नं करोषि, तत्-तर्हि ते-तव प्रतिग्रहस्य भरः-समूहो गुणवबुद्ध्या भक्तजनसमर्पिता-ऽशन-पान-वस्त्र-पात्राऽऽदिको नरकाय-नरकार्थमेव वर्तत इति ।।१३.९।। [३४५] शास्त्रज्ञोऽपि धृतव्रतोऽपि गृहिणीपुत्रादिबन्धोज्झितो ऽप्यङ्गी यद् यतते प्रमादवशगो न प्रेत्यसौख्यश्रिये । तन्मोहद्विषतस्-त्रिलोकजयिनः काचित् परा दुष्टता, बद्धायुष्कतया स वा नरपशुर्, नूनं गमी दुर्गतौ ।।१३.१०।। धनवि:-अथ चरणसामग्र्यां सत्यामपि तत्राप्रवृत्तौ विकल्पेन कारणद्वयं दर्शयन्नुपदिशति' - 'शास्त्रज्ञोऽपि' इति, यच्छास्त्रज्ञोऽपि-सिद्धान्तवेत्ताऽपि धृतव्रतोऽपिप्रतिपन्नमहाव्रतोऽपि गृहिणी-पुत्रादिबन्धोज्झितोऽपि-कलत्र-पुत्र-पुत्रीप्रभृतिबन्धनमुक्तोऽपि, प्रमादवशगो-मद्यादिप्रमादपरवशं गतः, अङ्गी-प्राणी प्रेत्यसौख्यश्रिये-पारभविकसौख्यसुखसंपदे न यतते-नोद्यमं कुरुते, तत् त्रिलोकजयिनः-त्रैलोक्यजयनशीलस्य मोहद्विषतो-मोहनीयकर्मवैरिणः, काचिद्-अनिर्वाच्या दुष्टता-दुष्कर्मकारिता, परासर्वोत्कृष्टा वर्तते इत्येकं, वा-अथवा स नरपशु-नर एव पशुमनुष्यरूपेण गौरित्यर्थः, बद्धायुष्कतया-निकाचितनरकाद्यायुष्कतया, नूनं-निश्चितं दुर्गतौनरकादिदुर्योनौ गमी-गमनशीलोऽवसेय इति द्वितीयं कारणमिति ।।१३.१० ।। रत्न.-अथ जीवं प्रति मोहवैरिणो दुष्टत्वं ज्ञापयन्नाह - शास्त्रज्ञोऽपि..इति., व्याख्या-यदङ्गी-प्राणी प्रमादवशवर्ती सन्, प्रेत्य-परभवे सौख्यश्रिये सुखसंपदे न यतते-न यत्नं करोति प्रेत्यसुखाय, धर्मकर्मणीत्यर्थः? किंलक्षणः ? - शास्त्राणि लौकिकानि लोकोत्तराणि च जानातीति शास्त्रज्ञः, १. ज्ञापयति - मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy