________________
२३६
श्रीअध्यात्मकल्पद्रुमे
भिक्षाणां समूहो भैक्ष्यं, शिष्या एव शिष्यकाः, शिष्यत्वेन पुत्रा इत्यर्थः, द्वन्द्वसमासे, तान् प्रति ददति, हे ऋषे ! चेद्यदि त्वं गुणान् विना वेषं बिभर्षि-धत्से, ततःतस्मात् कारणात्, तव ठगानां लोकोक्त्या ठगारा इति प्रसिद्धानां गतिः - अवस्था भाविनीति, यथा ते वेषैर्लोकान् वञ्चयित्वा दुर्गतौ यान्ति तथा त्वमपीति ।।१३.८ ।।
[३४४] नाऽऽजीविका-प्रणयिनी तनयादिचिन्ता, नो राजभीश्च भगवत्समयं च वेत्सि । शुद्धे तथाऽपि चरणे यतसे न भिक्षो !, तत् ते प्रतिग्रहभरो नरकार्थमेव ।।१३.९।।
धनवि . - - पुनश्चारित्राभावे
प्रतिग्रहोऽपि नरकायैवेत्युपदिशति -
'नाजीविका' इति, हे यते ! तवाऽऽजीविका-प्रणयिनी-तनयादिचिन्ता नास्तीत्यन्वयः, अत्रा-ऽऽजीविका - उदरपूरणोपायः, प्रणयिनी च-कलत्रं, तनयाश्चअङ्गजाः, ते आदौ येषां ते तथा तेषां चिन्ता - ' को व्यापारः कर्त्तव्यः ? कथं वा पाणिग्रहणं कर्त्तव्य ? कथं वा ते आज्ञायां रक्षणीयाश्च' इत्यादिका मानसी पीडा नास्ति, अत्रादिपदाद् हट्ट - गृहा-ऽऽदिकरण-कुटुम्बभरण-पोषणाऽऽदिपरिग्रहः, च पुनः, राजभी- 'राजा सर्वस्वं ग्रहीष्यति राजदेयं वा-दातव्यं च‘इत्यादिका भीतिः नास्ति, च पुनर्, भगवत्समयं - जैनसिद्धान्तं वेत्सि - जानासि, 'नो राजभीर्धरसि चागमपुस्तकानि ' इति पाठे आगमपुस्तकानि - सिद्धान्तपुस्तकानि धरसि-धत्से, तथापि-एवं सत्यपि शुद्धे चरणे निरतिचारचारित्रे न यतसे - न यत्नं कुरुषे इत्यर्थः; तत्-तस्मात् ते तव भिक्षादिलक्षणः प्रतिग्रहभरो- दत्तस्वीकारभारो नरकार्थमेवावसेय इति ।। १३.९ ।।
रत्न. - अथ यतित्वे सुखं दर्शयति
-
नाजीविकाप्रणयिनी..इति., व्याख्या -हे यते ! तवाजीविका - उदरभरणं, प्रणयिनी - स्त्री, तनयाः पुत्राः, ते आदौ येषां ते आजीविका-प्रणयिनी - तनयादयः, तेषां चिन्ता नास्ति, आदिशब्देन भ्रात्रादिस्वजनग्रहणं, तथा राज्ञो भी:- भयं नास्ति,