________________
यतिशिक्षोपदेशद्वारम्
२३५ येषां, तैः किं तुष्यसि ? - किं तोषं प्राप्नोषि, कथ ? - विना, कान् ?विशुद्धा-दोषरहिता योगाः, प्रशस्त-मनो-वाक्-कायप्रयोगलक्षणास्तान्, यद्-यस्मात् कारणात् प्रमाद इमानि लोकसत्कृति-नमस्करणा-ऽर्चनाद्यानि पशून्-कुठारान् करोति, किं कुर्वन् ? - कृन्तन्-छिन्दन्, कं ? - बोधिरेव द्रुमस्तस्याश्रयम्आलम्बनं प्रति, कस्मिन् ? - भव एवान्धुः-कूपस्तस्मिन् पतनं तस्मिन्, यथा कस्यचित् कूपे पततस्तटस्थद्रुमोऽवलम्बनं भवति, तथा जीवस्य संसारे पततो बोधिरालम्बनं भवति, तं बोधिद्रुमाश्रयं प्रमादः कृन्तन्निमानि पशून् करोतीति भावः ||१३.७।।
[३४३] गुणांस्तवाश्रित्य नमन्त्यमी जना,
ददत्युपध्यालय-भैक्ष्य-शिष्यकान् । . विना गुणान् वेषमृषेर्बिभर्षि चेत्,
ततष्ठ कानां तव भाविनी गतिः ।।१३.८।। धनवि.-अथ केवलवेषधरणे धूर्तसाम्यं दर्शयन्नुपदिशति -
अमी प्रत्यक्षसिद्धा गुणानुरागिणो जना-लोकाः, तव गुणानाश्रित्य-ज्ञानदर्शन-चारित्रादिगुणवन्तं त्वां ज्ञात्वेत्यर्थः नमन्ति-नमस्यन्ति, तथा उपध्यालयभैक्ष्यशिष्यकान्-वस्त्र-पात्र-वसत्यशन-पान-खादिम-स्वादिम-विनेयान्, स्वार्थे कप्रत्यये, अमी गुणानुरागिणो ददति-प्रयच्छन्तीत्यर्थः, चेद्-यदि गुणान् विना ऋषे-मुनेषरजोहरणादिलिङ्गं बिभर्षि-धरसि, ततस्-तव ठकानां-धूर्तानां गतिः नरकादिलक्षणा भाविनी-भवित्रीत्यन्वयः । अत्र ठकेति लोकप्रसिद्धो देशीशब्दो वा भावनीय इति ।।१३.८।।
रत्न.-पुनरेतदेव दृढयति -
गुणांस्तवाश्रित्य..इति., व्याख्या-हे द्रव्ययते ! अमी धर्मार्थिनो जनाः संयमगुणानाश्रित्य तुभ्यं नमन्ति, तथोपधिः-वस्त्रादिकः, तथा आलयो-वसतिः, १. ठग (दे० २.५८) धूर्त, देशीशब्दस्य संस्कृतीकरणं - ठकानां ।