________________
२३४
इत्यवेहि ।।१३.६।।
[३४१] किं लोकसत्कृतिनमस्करणार्चनाद्यैरे मुग्ध ! तुष्यसि विनाऽपि विशुद्धयोगान् । कृन्तन् भवान्धुपतने तव यत् प्रमादो, बोधिद्रुमाश्रयमिमानि करोति पशून् ।।१३.७।।
सत्कारादिकमैहिकमेव तपः- संयमफलमस्तु ? - इत्याशङ्काया
धनवि . -
. - ननु
श्रीअध्यात्मकल्पद्रु
माह
1
'किं लोके' इति, हे मुग्ध ! - हे अज्ञान ! विशुद्धयोगान्-सुप्रवृत्तमनो-वाक्काययोगान् विना लोकसत्कृति-नमस्करणा-ऽर्चनाद्यैः-जनकृतसत्कार-वन्दनपूजनादिभिः किं तुष्यति ? - हृष्यसि यद् - यस्मात् प्रमादः क्रियाशैथिल्यलक्षणो मद्यादि वा, भवान्धुपतने- संसारकूपपतने तव बोधिः- सम्यक्त्वावाप्तिः, स एव द्रुमो-वृक्षः स एवाश्रयः- पतनसमयेऽवलम्बनलक्षणः तं बोधिद्रुमाश्रयं कृन्तन्छिन्दन् इमानि लोकसत्कृति - नमस्करणादीनि पशून्- कुठारोपमानि करोतिसृजतीत्यर्थः; भावार्थस्तु अत्र प्रमादश्छेदकपुरुषस्थानीयो बोधिद्रुमस्थानीय लोकसत्कृत्यादि पर्शुस्थानीयमित्यादि योजनया - [संबोधप्रकरणे ]
[३६१] "जे बंभचेरभट्ठा पाए पाडंति बंभचारीणं ।
ते हुंति टुंटमुंटा, बोही य सुदुल्लहा तेसिं" ।। [
] ।।
'इति गाथाभावनया च स्पष्ट एवेति । ।१३.७।। रत्न.–अथ लोकसत्क्रियादिभिर् -'मा तुष्य इत्युपदिशति
"
किं लोकसत्कृति..इति व्याख्या - हे मुग्ध ! हे वेषयते ! लोकानांवेषदर्शनरञ्जितानां सत्कृतिः - सत्कारोऽभ्युत्थानादिः नमस्करणं - क्षमाश्रमणादिना पञ्चाङ्गप्रणामः, अर्चनं-श्रीखण्ड - घुसृणादिना सुवर्ण-रूप्यादिनाणकैश्च तान्याद्यानि १. ये ब्रह्मचर्यभ्रष्टाः पादौ स्थापयन्ति ब्रह्मचारिणाम् । ते भवन्ति टुंटमुंटा बोधिरपि सुदुर्लभस्तेषाम् । २. सुवर्णपुष्पादि - मु० |