________________
२२८
श्रीअध्यात्मकल्पद्रुमे मुनिवरेभ्यो वयं नमस्कुर्महे, ते के ? - येषां मनो विषयेषु-शब्दादिषु न गृध्यतिन गायं भजते, वा पुनः, कषायैः-क्रोधाद्यैर्न प्लुतं-न निमग्नं, न व्याप्तमित्यर्थः, च पुनर्, आप्तैः-अर्हद्भिरुपदिष्टा ये संयमस्य गुणा:-क्षान्त्यादयस्ते एवाऽऽक्रीडउद्यानं तस्मिन् खेलति-क्रीडति, अथवा आप्तः-प्राप्तः संयमगुणा एवाऽऽक्रीडउद्यानं तत्र खेलतीति व्याख्येयं, किं कुर्वन ? - भजत-श्रयत, का? - भावनाःपञ्चविंशतिं व्रतस्य, एकैकस्य पञ्च-पञ्च-सद्भावाद्, अथवा अनित्यत्वादयो द्वादश ताः, किंलक्षणं मनः ? - रागो-द्वेषौ विमुञ्चतीति रागद्वेषविमुक्, पुनः कीदृक् ? - प्रशान्तानि कलुषानि-पापानि यस्मात् तत्, पुनः कीदृक् ? - साम्येन-समतया आप्तं शर्मणां-सुखानामद्वयम्-ऐक्यं येन तत्, समभावसुखस्यानुपमत्वादिति, एतद्विशेषणत्रययुक्तस्यैव मनसो भावनाश्रयणमिति ।।१३.१।। [३३४] स्वाध्यायमाधित्ससि न प्रमादैः,
शुद्धा न गुप्तीः समितीश्च धत्से । तपो द्विधा नार्जसि देहमोहादल्पेऽपि हेतौ दधसे कषायान् ।।१३.२।।
[३३५] परीषहान् नो सहसे न चोप
सर्गान् न शीलाङ्गधरोऽपि चासि | तन्मोक्षमाणोऽपि भवाब्धिपारं,
मुने ! कथं यास्यसि वेषमात्रात् ? ||१३.३।। धनवि.-अथोद्दिष्टमेवार्थं पद्यद्वयेनाह - 'स्वाध्यायम्' इति, 'परीषहान्' इति, हे मुने ! - व्रतिन् ! प्रमादैःमद्यादिभिर्हेतुभूतैः, स्वाध्याय-वाचना-प्रच्छनादिपञ्चविधं नाधित्ससि-नो आधातुंकर्तुमिच्छसि; आङ्पूर्वकडुधांगक् धारणे [है.धा ११३७] इत्यस्य धातोः सनि आधित्ससि-इति, क्रियाकलापे उत्पत्त्यर्थे उक्तोऽपि प्रयोगो, धातूनामनेकार्थत्वात् करणार्थे साधुः; देहलीप्रदीपन्यायेन प्रमादैरित्युभयत्र योज्यं, तेन प्रमादैः शुद्धा