SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २२९ यतिशिक्षोपदेशद्वारम् निरतिचारा गुप्ती:-मनोगुप्त्यादिकाः, च पुनः समिती:-ईर्यासमित्यादिका न धत्सेन धरसि; च पुनर्, देहमोहाद्-देहे-शरीरे मोहो-'ममेदं शरीरं मा दुर्बलं भवतु' इति मौढ्यं, तस्माद् द्विधा-बाह्याभ्यन्तरभेदेन द्विप्रकारं तप-तपःकर्म नार्जसिन करोषीत्यर्थः, च पुनर्, अल्पेऽपि-तुच्छेऽपि हेतौ-कषायकारणे, कषायान्क्रोधादिकान् दधसे, दधि धारणे [है.धा ७४५] इत्यस्य धातोः प्रयोगः ||१३.२ ।। ___धनवि.-च पुनः, परीषहान्क्षुत्-तृट्-प्रमुखान् उपसर्गाश्च देव-मनुष्य-तिर्यक्कृतान् पराभवान् नो-नैव सहसे, षहि मर्षणे [है.धा ९९०] इत्यस्य क्षमसे इत्यर्थः; च पुनः शीलाङ्गधरोऽपि-अष्टादशसहस्रशीलाङ्गरथधारकोऽपि नासि-न भवसि; तानि चाष्टादशशीलाङ्गसहस्राण्येवम् । [दशवैकालिक निर्युक्तौ] [३३६] "जोए करणे सन्ना इंदियभोमाइ समणधम्मे य । सीलंगसहस्साणं अट्ठारसगस्स निप्फत्ती ।। [१७७] इत्येवं स्थापनाम्नायः, भावना त्वियम् - [३३७] "मणेणं ण करेइ आहारसन्नाविप्पजढो । इंदियसंवुडो खंतिसंपन्नो पुढविकायसंरक्खओ ।। [ ] इत्यादि द्रष्टव्यमिति यतिप्रतिक्रमणसूत्रावचूर्णौ । तत्-तस्मात् कारणात् मोक्षमाणोऽपि-मुक्तिं गमिष्यन्नपि 'मु(च्ल)न्ती मोक्षणे' [है.धा.१३२] इत्यस्य, वेषमात्रात्-तपःसंयमादिरहितत्वेन केवलवेषाद् भवाब्धिपारं-संसारसमुद्रतीरं त्वं कथं ? - केन प्रकारेण यासि-प्राप्स्यसि ।।१३.३।। रत्न:-अथ वेषमात्रेण मा रज्यस्वेति प्रकारान्तरेणोपदिशति - स्वाध्यायमाधित्ससि., परीषहान् नो सहसे इति., युग्मम्,-व्याख्या-हे मुन ! त्वं प्रमादात् स्वाध्यायं-जिनागमस्य पठितस्यापि गुणनं नाधित्ससि-न कर्तुमिच्छसि, १. योगाः करणानि संज्ञाः इन्द्रियाणि भूम्यादि श्रमणधर्माः । शीलाङ्गसहस्राणामष्टा-दशकस्य निष्पत्तिः ।।१।। २. मनसा न करोति विप्रत्यक्ताद्दारसंज्ञः संवृतेन्द्रियः क्षान्तिसंपन्नः पृथ्वीकायसंरक्षकः ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy