________________
१३. यतिशिक्षोपदेशाधिकारः
[३३३] ते तीर्णा भववारिधिं मुनिवरास्, तेभ्यो नमस्कुर्महे, येषां नो विषयेषु गृद्ध्यति मनो, नो वा कषायैः प्लुतम् । रागद्वेषविमुक् प्रशान्तकलुषं साम्याऽऽप्तशर्माऽद्वयं, नित्यं खेलति चाप्तसंयमगुणाऽऽक्रीडे भजद् भावनाः ।। १३.१।।
धनवि.—अथानन्तरद्वारे गुरु-देव-धर्मशुद्धिरुक्ता सा च गुर्वधीना, गुरुश्च विरतिधार्येव, विरतिश्च यत्यधीनेति विरतिधारिणो यतीन् प्रति शिक्षामुपदिशन्नाह अथ यतिं प्रति शिक्षोपदेशः इति स्पष्टम् । अत्रापि विरतिधारिणां मङ्गलार्थं नमस्कारमुपदेशद्वारेणाह
'ते तीर्णा' इति, तेऽग्रेऽत्रैव यच्छब्देन वक्ष्यमाणा, मुनिवरा-मुनिषु-यतिषु वराः-प्रधानाः महामुनय इत्यर्थः, भववारिधिं-संसारसमुद्रं तीर्णाः पारं प्राप्ताः, पुनस् तेभ्यो मुनिवरेभ्यो वयं नमस्कुर्म्महे - नमस्कारं कुर्मो, येषां मुनिवराणां मनःचित्तं विषयेषु-शब्दादिषु नो गृद्ध्यति आसक्तिं नो याति, वा अथवा येषां मनः कषायैः-क्रोधादिभिर्नो प्लुतं - नाऽऽप्लावितं च पुनर्, येषां मनो राग-द्वेषौ विमुञ्चतित्यजतीति राग-द्वेषविमुक् च पुनर्, येषां मनः प्रशान्तकलुषं - प्रकर्षेण शान्तंनिःसत्ताकीभूतं कलुषं-पापकर्म यत्र तत् तथा, च पुनर्, येषां मनः साम्याप्तशर्माद्वयंसाम्येन-समतया आप्तं प्राप्तं शर्मणा - सुखेन सहाऽद्वयम् - ऐक्यं येन तत् तथा, च पुनर्, येषां मनो भावना-अनित्यतादिका द्वादश भजत्-आश्रयत्, आप्तसंयमगुणाक्रीडे आप्तः- प्राप्तो यः संयमलक्षणो गुणः स एवाऽऽक्रीडः - उद्यानं तत्र खेलति - क्रीडतीत्यन्वयः ।।१३.१।।
1
रत्न. -अथ यतिं प्रति शिक्षोपदेशाख्यस्त्रयोदशोऽधिकारो 'प्रस्तूयते तत्र प्रथमं यतिस्वरूपमेवोपदिशति
ते तीर्णा इति, व्याख्या- ते मुनिवरा भववारिधिं तीर्णाः, तथा तेभ्यो १. ०ऽधिकारो विवरीतुं प्र० मु० ।
-