________________
२२६
श्रीअध्यात्मकल्पद्रुमे ___ 'न देवकार्ये' इति, आशु-शीघ्रं नश्वरं-विनाशि, येषां पुरुषाणां धनं-द्रव्यं, देवकार्ये-देवप्रासाद-प्रतिमाप्रतिष्ठादिप्रयोजने न आयाति, च पुनः सङ्घकार्येसङ्घः-साधु-साध्वी-श्रावक-श्राविकासमुदायः, तस्य कार्ये-प्रयोजने येषां धनं नायाति, तेषां पुंसां, तदर्जनाद्यैः-धनोपार्जनप्रमुखैः, आद्यपदेन पञ्चाश्रवप्रवृत्तिपरिग्रहो, वृजिनै-पापैर्भवान्धौ-संसारकूपे पतिष्यतां-पतनं करिष्यतां, नु इति वितर्के किमवलम्बनम् अवष्टम्भः स्याद्-भवतीति ।।१२.१७।।
इति श्रीतपागच्छ० शिष्योपाध्यायश्रीधनविजयगणिविरचितायां गुरु-देवधर्मशुद्धिनाम्नी द्वादशी पदपद्धतिः ।।१२।।
रत्न.-अथ सुपात्रे धनव्ययं प्रकारान्तरेणोपदिशति -
न देवकार्ये इति., व्याख्या-येषां धनिनां धनं देवकार्ये-नवीनप्रासादनिर्मापणबिम्बप्रतिष्ठा-जीर्णप्रासादोद्धारादि-लक्षणे च पुनः सङ्घकार्ये-साधर्मिकवात्सल्यदीनसाधर्मिकोद्धरणादौ अथवा साधु-साध्वी-श्रावक-श्राविकालक्षणे न भवतिनोपयोगी भवतीत्यर्थः, किंलक्षणं ? - नश्वरं-नाशशीलं, कथम् ? - आशुशीघ्रं, तेषां धनस्यार्जनाद्यैर्वृजिनैः-पापैर्भवान्धौ-संसारकूपे पतिष्यतां सतां, नुरिति विशेषे, अवलम्बनम्-आधारः किं स्याद् ?, अपि तु किं न स्यादिति, धर्महीनाः संसारकूपे पतिष्यन्त्येवेति ।।१२.१७ ।।
[३३२] श्रीशान्तिचन्द्रवरवाचकदुग्धसिन्धु
लब्धप्रतिष्ठवरवाचकरत्नचन्द्रः ।
अध्यात्मकल्पफलदेऽत्र चकार वृत्तिं, . तत्राऽऽस्तिकव्रतमितो विवृतोऽधिकारः ।।१२।।
इति द्वादशोऽधिकारः ||