SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २२५ देव-गुरु-धर्मशुद्धिद्वारम् धनवि.-अथ देव-गुरु-धर्मेष्वान्तरप्रीतिमन्तरेण संपूर्णस्यापि जन्मनोऽसारतां दर्शयन्नुपदिशति - 'न धर्मचिन्ता' इति, येषां पुरुषाणां चित्ते न धर्मचिन्ता-किमद्य सुकृतं कृत? किमद्य करणीयम् ? इत्यादिचिन्तनरूपा न जायते, पुनर्येषां चित्ते गुरुदेवभक्ती-गुरु-देवयोर्भक्ती-आन्तरप्रीत्याऽशन-पान-वसना-ऽऽदिप्रदान-प्रासादप्रतिमाप्रतिष्ठा-पर्युपासनादिरूपा न भवतः, पुनर्येषां चित्ते वैराग्यलवोऽपिसंसारविरक्ततालेशोऽपि नास्ति, तेषां पुंसाम्, उदरम्भरीणां-केवलं स्वोदरपूरकाणाम्, उद्भवो-जन्म उत्पत्तिः, पशूनामिव-काक-श्वानादीनामिव, प्रसूर-जननी, तस्याः क्लेशो-यौवनविनाश-गर्भवासप्रसवादिपरिश्रमः, स एव फलं-प्रयोजनं यस्य स प्रसूक्लेशफलः स्याद्-भवतीत्यर्थः ।।१२.१६ ।। रत्न.-एतदेव प्रकारान्तरेणाचष्टे - न धर्मचिन्ता...इति., व्याख्या-येषां पुंसां धर्मस्य चिन्ता-चिन्तनम् अहं प्रतिदिनं - कं धर्मं करोमि, न करोमि..इति लक्षणा नास्ति, तथा गुरुदेवयोभक्ती-भजने न स्तः, तथा विरागस्य भावो वैराग्यं, तस्य लवोऽपिलेशोऽपि नास्ति, कस्मिन् ? - चित्ते, तेषां पुंसामुद्भवो-जन्म स्यात्, किंलक्षणः? - प्रस्वाः-जनन्याः, क्लेश एव-कष्टकरणमेव फलं यस्य सः, केषामिव ? - पशूनामिव, यथा पशूनाम्-शूकरादीनामुद्भवः केवलं जननीक्लेशकरः स्यात्, यतः किंलक्षणानाम् ? उभयेषां - उदरं बिभ्रतीति तेषाम् ।।१२.१६ ।। [३३१] न देवकार्ये न च सङ्घकार्ये, येषां धनं नश्वरमाशु तेषाम् । तदर्जनाद्यैर्वृजिनैर्भवान्धौ, पतिष्यतां किं न्ववलम्बनं स्यात् ? ||१२.१७ ।। धनवि.-अथैनं द्वारमुपसंहरन् शुद्धदेव-गुरु-धर्मार्थं यस्य धनं नोपयुज्यते, तस्य धनस्य दौर्गत्यहेतुतां दर्शयन्नुपदिशति -
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy