________________
ર૪
श्रीअध्यात्मकल्पद्रुमे सिंह-शृगालयोपञ्चाख्यानोक्तं ज्ञातं ज्ञातव्यमिति ।।१२.१४ ।। [३२९] पूर्णे तटाके तृषितः सदैव,
भृतेऽपि गेहे क्षुधितः स मूढः | कल्पद्रुमे सत्यपि ही दरिद्रो,
गुर्वादियोगेऽपि हि यः प्रमादी ।।१२.१५।। धनवि.-अथ गुर्वादियोगे सत्यपि प्रमादवतां जनानां दृष्टान्तपूर्वकं शोचनीयतां सूचयन्नुपदिशति -
'पूर्णे' इति, स जनो मूढो-मूर्खः, पूर्णे-आकण्ठं जलेन भृतेऽपि, तटाके-सरसि सदैव-निरन्तरं तृषितः-तृषाऽऽक्रान्तो ज्ञेयः, च पुनः, स मूढः पुमान् भृतेऽपिसिद्धाऽन्नादिना भरितेऽपि, गेहे क्षुधित:-क्षुधाऽऽक्रान्तो ज्ञेयः, ही इति सर्वत्र
खेदे, च पुनः, स मूढः पुमान् कल्पद्रुमे-कल्पवृक्षे, सत्यपि दरिद्रो ज्ञेयः, सः क ? - इत्याह-यः पुमान् हि निश्चितं गुर्वादियोगेऽपि देव-गुरु-धर्मसामग्र्यां सत्यामपि, प्रमादी-प्रमादवान् भवतीति ।।१२.१५ ।। .
रत्न.-अथ गुर्वादीनां योगे मा प्रमादीरिति दृष्टान्तदानेनोपदिशति
पूर्णे तटाके इति, व्याख्या-स पुमान् पूर्णे तटाके सत्यपि सदैव नित्यं तृषितोऽस्ति, स मूढो गेहे सुखभक्षिकादिना भृते सति क्षुधितोऽस्ति, ही इति खेदे, अङ्गणे कल्पद्रुमे सत्यपि दरिद्रोऽस्ति, स कः ? - यो गुर्वादीनां-गुरुदेव-धर्माणां योगे सत्यपि प्रमादी-प्रमत्तोऽस्तीति ।।१२.१५ ।।
[३३०] न धर्मचिन्ता गुरु-देवभक्ती,
येषां न वैराग्यलवोऽपि चित्ते । तेषां प्रसूक्लेशफलः पशूना
मिवोद्भवः स्यादुदरम्भरीणाम् ।।१२.१६ ।। १. गुरुश्च देवश्च गुरु-देवी तयोः भक्तिः इति विग्रहे कृते गुरु-देवभक्तिः पाठः युक्तः, भक्त्याः द्वित्वं तदायुज्यते यदा वृत्त्योः द्रव्य-भावादिना भेदेन विवरणं स्यात्, अतः मूले वृत्त्योश्च ‘भक्तिः' इत्येकवचनं युक्तम् |