SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २१८ श्रीअध्यात्मकल्पद्रुमे रत्न.-पुनः कुगुरोरनासेवनमाश्रित्योपदिशति - नाऽऽनं, सुसिक्तोऽपि..इति. व्याख्या-निम्ब एव निम्बको निम्बवृक्षः, सुष्टु यथा स्यात् तथा सिक्तोऽप्यानं-आम्रफलं न ददाति, तथाः पुष्टाऽपि वन्ध्यगवीवन्ध्या गौः पयो न ददाति, चः पुनरर्थे, देशभ्रष्टत्वादुत्पन्नमात्रभक्षित्वाद् दुःस्थोदुर्गतो राजा-राजेति नामधारी सुष्ठु सेवितः सन् श्रियं-लक्ष्मी न ददाति, एतैर्दृष्टान्तैः कुगुरुः संश्रितः सन् धर्म-स्वर्गादिसंपद्-दायकं वाऽथवा शिवं-मोक्षं सकलदुःखनिवृत्तिलक्षणं न ददाति, सुसिक्ताः सुपोषिताः सुसेविताः सुसंश्रिता अपि ये यादृशास्ते तादृशा एव भवन्तीति भावः ।।१२.८ ।। [३२३] कुलं न जातिः पितरौ गणो वा, विद्या च बन्धुः स्वगुरुर्धनं वा । हिताय जन्तोर्न परं च किञ्चित्, किं त्वादृताः सद्गुरु-देव-धर्माः ।।१२.९।। धनवि.-अथ देव-गुरु-धर्माः शुद्धा एव हिताय भवन्तीत्युपदिशति - 'कुलं' इति, न कुलं-पितृवंशः, न जातिः-मातृवंशो, न पितरौ-माता च पिता च पितरौ, न गणो-महाजनादिसमुदायो, वा-अथवा न विद्या-तर्कविद्या मन्त्रविद्या वा, च पुनर्, न बन्धुः-स्वजनश्च पुनर्न स्वगुरु:-विद्यागुरुः कुलगुरुः वा-अथवा न धनं-वित्तं च पुनर्न परम्-उक्तातिरिक्तमन्यत् किंचिद् वस्तु, हिताय भवतीति सर्वत्र योज्यम्; तु पुनः किं हिताय भवति ? - इति प्रश्ने प्रतिपादयति-आदृताआराधिताः सद्गुरु-देव-धर्मा-निर्दोषगुरु-देव-धर्मा हिताय भवन्तीति योगः ||१२.९ ।। रत्न.-अथ सर्वेभ्यो गुरुदेवधर्माणामुत्कर्षमाह-कुलं न जातिः..इति. व्याख्याएतानि जन्तोः-प्राणिनो हिताय न भवन्तीत्यन्वयः, तद्व्यक्तित आह-कुलम्इक्ष्वाकुकुलादि, जातिः-मातृपक्षः, पितरः-पितामह-पितृ-वृद्धभ्रातृ-पितृत्वप्रपन्नादयः, गणः-समूहः स्वकीयत्वेन कल्पितः, चः पुनरर्थे, विद्याः-षडङ्ग्यादिकाः, बन्धुः
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy