________________
२१७
देव-गुरु-धर्मशुद्धिद्वारम्
रत्न.-अथाऽशुद्धान् गुरु-देव-धर्मान् प्राप्य, मा हर्षं प्राप्नुहि-इति कथयतिमाद्यस्यशुधैः-इति हे आत्मन् ! यस्त्वमशुधैः-सदोषैर्गुरु-देव-धर्मैः प्राप्तैः सद्भिर्माद्यसि-हृष्यसि, त्वं किंलक्षणः ? - गुणानां-योगशास्त्रादिशास्त्रोक्तानां न, विद्यते अपेक्षा यस्य सः, केन ? - दृष्टिरागेण, ततस्त्वां धिगस्तु, क्वचिदध्याहारस्य व्याख्यानाऽङ्गत्वात् यत्-तच्छब्दावध्याहार्यो, पुनस्तस्य मदस्याथवा तु तस्य दृष्टिरागस्य, अमुत्र-परभवे तत्फले किल्बिषकावतारादिलक्षणे प्राप्ते सति, त्वं शोचिष्यसि-हा' मया किं कृतम्'इत्यात्मानं पश्चात्तापविषयीकरिष्यसि । तत्रार्थे दृष्टान्तमाह-इव-यथा पुमान्, महांश्चासौ आमयश्च महामयो-महान् रोगः तेन ऋतः-पीडितस्सन् कुपथ्यं भुङ्क्ते इत्येवंशीलः कुपथ्यभोजी शोचतीति ।।१२.७ ।।
[३२२] नाऽऽनं सुसिक्तोऽपि ददाति निम्बकः,
पुष्टा रसैर् वन्ध्यगवी पयो न च । दुःस्थो नृपो नैव सुसेवितः श्रियं,
धर्मं शिवं वा कुगुरुर्न संश्रितः ||१२.८।। धनवि.-अथ कुगुरुः सेवितो मोक्षप्रदो न भवति-इति दृष्टान्तत्रयदर्शनपूर्वकमुपदिशति -
'नाऽऽनं' इति यथा निम्बको निम्बवृक्षः प्रसिद्धः, सुसिक्तोऽपि-शोभनप्रकारेण दुग्धामृतादिना सिक्तोऽप्यानं-सहकारफलं न ददाति-नो दत्ते, च पुनर्यथा वन्ध्यगवीसन्तानात्यन्ताभाववती धेनुः, रसै-इक्षु-घृत-तैलप्रभृतिभिः पुष्टाऽपि-पुष्टिं प्रापिताऽपि न च पयो-दुग्धं ददाति, च पुनर्, यथा दुःस्थो-राज्यभ्रष्टः कष्टपतितो नृपो-राजा सुसेवितः-सम्यक्प्रकारेण सकलतत्समीहितसंपादनेनाराधितः, श्रियं-धनधान्यादिलक्ष्मी नैव ददाति, तथा कुगुरु:-अशुद्धगुरुः संश्रितः-सेवितो, धर्म-स्वर्गादिप्राप्तिबीजं, वा-अथवा शिवम्-अपवर्गं न ददाति, अत्र यथा तथेति पदद्वयमध्याहार्यं, तथा च दृष्टान्ति-दार्टान्तिकभावः स्पष्ट एवेति ।।१२.८ ।।
१. हरणं... मु० ।