________________
२१६
श्रीअध्यात्मकल्पद्रुमे मुक्तिपथस्य वाहकतया-प्रवर्तकत्वेन न्यस्ताः-स्थापिताः, ते सुधर्मादिपट्टपरंपरायातसुविहिताचार्येभ्यः पृथग्भूय स्वाभिमानपुष्टये स्वनाम्ना मतप्रवर्तकाः, त्वदृते त्वया विना, त्वच्छासने लुण्टाका इव-लुण्टाका अभवन्, कस्मिन् ? - कलौकलियुगे, अथ लुण्टाकोपमानत्वेन लुण्टाकधर्ममाह-यत् कारणाद् यतिनाम बिभ्राणा दधानाः, तनुधियां-स्वल्पबुद्धीनां जनानां पुण्यश्रियो पुण्याण्येव श्रियो, [सुकृतं] मुष्णन्ति-चोरयन्ति, अत्रार्थे वयं किं पूत्कुर्मः-पूत्कारं कुर्मः ?, हि यस्मात् हेतोः तलारक्षा अपि-कोटपाला अप्यराजके-राज्ञोऽभावे किं दस्यवःचौरा न भवन्ति ?, अपि तु भवन्ति एव, अत्रोपनयः सुगमत्वाददर्शितोऽप्यूह्य इति ।।१२.६।। [३२१] माद्यस्यशुधैर्गुरु-देव-धर्मेर्
धिग् दृष्टिरागेण गुणानपेक्षः । अमुत्र शोचिष्यसि तत्फले तु,
कुपथ्यभोजीव महाऽऽमयातः ।।१२.७।। धनवि.-अथ कुगुरु-देव-धर्माः आश्रिताः शोचनाय भवन्तीत्याह - 'माद्यसि' इति, धिग्-इति तिरस्कारे, त्वं दृष्टिरागेण-स्वदर्शनरागेण गुणेषुज्ञान-दर्शन-चारित्रेषु, न विद्यतेऽपेक्षा-'मया गुणिन एव गुरवो वन्दनीया, यत्र गुणो भवति स एव देवः सेव्यः, समग्रगुणवत्प्रणीत एव धर्मः समाचरणीय' इति बुद्धिर्यस्य स गुणानपेक्षः सन्, अशुधैः-सदोषैर्गुरु देव-धर्मैः-इदानीमिति गम्यं, किं माद्यसि ? - मदवान् किं भवसि, तु पुनर्, अमुत्र-परलोके, तत्फले-कुगुर्वादिसेवनजनितमदफले दुर्गतिदुःखानुभवलक्षणे शोचिष्यसि-शोचनां करिष्यसि, अत्रोक्तमर्थं दृष्टान्तेन दृढयति-इव-यथा कुपथ्यभोजी-पूर्व भिषग्निषिद्धाहारभोक्ता, उत्तरकाले महामयातः सन-अतिशयेन रोगपीडितः पुमान शोचते इत्यन्वयः । अत्राऽशुद्धदेवगुरुधर्माऽङ्गीकारेण मदकरण - कुपथ्यभोजनयोर्गुणानपेक्षदृष्टिरागिमहामयार्त्तयोर्दृष्टान्तदान्तिकतेति भावः ।।१२.७।। १. कारणात् मु० ।